________________
अष्टमः पल्लवः ]
के के सुश्राद्धधर्मं च, द्वादशव्रतबन्धुरम् । सम्यक्त्वं केऽपि शीलं च, जगृहुर्गगृहमेधिनः ॥ २९३॥ पुष्पचूलो नृपः प्राप, वैराग्यं गुरुवाक्यतः । संसारानित्यतां ध्यायन्, शीघ्रं स्वगृहमागतः ॥ २९४ ॥ सुतश्चन्द्रोदयो राज्ये, स्थापितो महदाग्रहात् । राज्यचिन्ता प्रदत्ता च, समर्थानां सुमन्त्रिणाम् ॥२९५॥ राजा गत्वा गुरोः पार्श्वे, राज्ञ्या कामाख्यया युतः । व्रतं चादाय सद्ध्यानतपोज्ञानपरोऽभवत् ॥ २९६॥ दीक्षां प्रपाल्य कर्माणि, ज्वालयित्वा तपोऽग्निना । सम्प्राप्तकेवलज्ञानो, जगाम परमं पदम् ॥ २९७॥ ततश्चन्द्रोदयो राजा, चन्द्रोदयसमुज्ज्वलः । न्यायेन पालयामास, राज्यं प्राज्यं सुरेशवत् ॥२९८॥ अथान्यदा गवाक्षस्थः, स्वपुरं स व्यलोकयत् । कः सुखी कोऽत्र दुःखी वा, चिन्तयन्निति चेतसि ॥ २९९॥ इति चिन्तापरो यावन्निरीक्षति निजप्रजाः । दृष्टिमार्गेऽपतत् तावत्, पूर्वं परिचितो द्विजः ॥३००||
भूतार्त्तग्रथिलीभूतो, धूलिधूसरदेहभृत् ।
चित्तभ्रमेण चोन्मत्तः, स्थितः सोऽस्ति चतुष्पथे ॥३०१ || कौतुकात् मिलिताः पौराः, पाषाणैर्ध्नन्ति केऽपि तम् । केचिद्धसन्ति निन्दन्ति, स एवं विह्वलीकृतः ॥३०२|| इत्थं तं दुरवस्थायां, पतितं वीक्ष्य भूपतिः । दध्यौ विद्याप्रकोपेनाभवन्मे मित्रमीदृशम् ||३०३|| बलात्कारेण प्रागस्य, मया विद्या प्रदापिता । कुपात्रे पतिता सा हि, विधिना नैव साधिता ॥ ३०४|| पुनर्निन्दा कृताऽनेन, विद्यास्य कुपिता ततः । तेनासौ ग्रथिलो जातः, कर्म लोप्तुं न शक्यते ॥ ३०५ ॥
१. महाग्रहात् इति स्यात् । २. परस्मैपदं चिन्त्यम् ।
[ ३४१
5
10
15
20
25