________________
5
10
15
20
25
३]
स्वपार्श्वे द्विजमाकार्याकार्याऽथो मन्त्रवादिनः ।
स सज्जीकारितो राज्ञा, 'ह्युत्तमा उपकारिणः ' ॥३०६||
यतः- वचनं प्रसादसदनं, सदयं चित्तं सुधामुचो वाचः । करणं परोपकरणं, येषां तेषां न ते निन्द्याः ॥३०७॥ बन्धुमत्यादिराज्ञीभिरनेकाभिः समन्वितः ।
[ धर्मकल्पद्रुमः
बुभोज विविधान् भोगान् राजा पुण्यप्रभावतः ||३०८|| कियत्यपि गते काले, श्रीनिवासः सुतोऽभवत् । क्रमेण वर्द्धितः सोऽपि, कलासु कुसलोऽजनि ॥ ३०९ ॥ राज्ञ्यः सप्त सहस्राणि, तस्य भूपस्य जज्ञिरे । द्विगुणाश्चेटिका जाताः पुत्राश्चान्येऽपि भूरिशः || ३१०॥ महाप्रभुत्वमाप्यासौ, न्यायेनापालयत् प्रजाः । न कोऽपि दूम्यते तत्र, कोऽपि नैव च दण्डयते ॥३११॥ फलन्ति च सदा वृक्षा, न दौस्थ्यं न च विग्रहः । अकाले नैव मृत्युश्च, न द्रोहो नैव वञ्चनम् ॥३१२॥ न चेतयो न मारिश्च, न वैरं व्याधयोऽपि न । न दुःखं न भयं लोके, तस्मिन् राज्ञि सुधर्मिणि ॥३१३|| न कूटं भाषते कोऽपि, हिंसां कोऽपि करोति न । व्यसनानि च सप्तापि, तत्यजुर्यत्र मानवाः ॥ ३१४॥ दुष्कर्मभीरवो यत्र, जना आचारसुन्दराः । अनाचारविमुक्ताहि, 'यथा राजा तथा प्रजाः ' ॥३१५॥ यस्य पादयुगं भक्त्या, सेवन्ते नरखेचराः । गायन्ति स्म गुणग्रामं, किन्नरीकिन्नरादयः ॥ ३१६॥ दीनेभ्यो याचकेभ्यश्च, यो ददौ दानमीप्सितम् । पात्रेभ्यो दत्तवान् भक्त्या, धर्म्मकर्माणि चाकरोत् ॥३१७॥ अर्धचक्रीव सर्व्वर्द्धिः, कोशदेशपुरादिषु । त्रिखण्डाधिपतित्वं स, पालयामास पुण्यतः || ३१८ ||
,