________________
अष्टमः पल्लव:]
[३४३ कियत्काले गते सोऽथ, रात्रौ जागरितोऽन्यदा । दध्यौ याति वृथा जन्मारण्यजा मालती यथा ॥३१९॥ न गृहीतं फलं किञ्चिन्न कृतं सुकृतं ततः । जातोऽयं नृभवः कूपच्छायावन्निष्फलो मम ॥३२०॥ इत्यादिभवनां कृत्वा, स्मृत्वा च परमेष्ठिनः । कृत्वा प्रभातकृत्यानि, सभायां संस्थितो नृपः ॥३२१॥ सभामुख्यजनाः सर्वे, तदा तत्र समागताः । भूपं प्रणम्य सद्भक्त्या, यथास्थानमुपाविशन् ॥३२२॥ नृपः सभ्यान् प्रति प्रोचे, भो भोः किं वित्थ वा न हि । संसार एष कीदृक्षः, किं स्थिरो वा किमस्थिर: ? ॥३२३॥ 10 तेऽपि प्रोचुर्न जानीमः, स्वामिस्त्वं वेत्सि तद्वद । ततो नृपः पुनः प्राह, भो भोः शृणुत सज्जनाः ! ॥३२४।। अस्थिराणि शरीराणि, विभवोऽप्यस्थिरः पुनः । जीवितं निश्चलं नैव, संसारो ह्यमस्थिरः ॥३२५॥ संसारनाटके जीवा, उत्तमाधममध्यमाः । नटवत् कर्मसंयोगान्नानारूपैर्भवन्त्यहो ॥३२६॥ कषायैर्विषयैर्योगैः, प्रमादैरङ्गिभिः सदा । रौद्रा नियमाऽज्ञत्वैश्चात्र कर्म प्रबध्यते ॥३२७॥ क्षितितलशयनं वा प्राप्तभैक्षाशनं वा, सहजपरिभवो वा नीचदुर्भापितं वा । महति फलविशेषे नित्यमभ्युद्यतानां, न तु मनसि शरीरे खेदमुत्पादयन्ति ॥३२८॥ सौधोत्सङ्गे श्मशाने स्तुतिशपनविधौ कर्दमे कुङ्कमे वा, पल्यङ्के कण्टकाग्रे दृषदि शशिमणौ चर्मचीनांशुके वा । शीर्णाङ्गे दिव्यनार्यामसमशमवशाद् यस्य चित्तं विकल्पै- 25 र्नालीढं सोऽयमेकः कलयति कुशलः साम्यलीलाविलासम् ॥३२९॥
15
20