________________
४]
10
[धर्मकल्पद्रुमः स्वगुणं परदोषञ्च, वक्तुं जल्पयितुं परम् ।। अर्थिनञ्च निराकर्तुं , सतां जिह्वा जडायते ॥३३०॥ आचारहीनं न पुनन्ति वेदा, यद्यप्यधीताः सह षड्भिरङ्गैः । एकाक्षरज्ञो हि विधानयुक्तः, परं पदं याति विधूतपापः ॥३३१॥ हयाः कस्य गजाः कस्य, कस्य देशोऽथवा पुरम् । बहीरूपमिदं सर्वमात्मीयो धर्म एव हि ॥३३२॥ इत्थं विचार्य विबुधैः, पुण्यमेवात्मनो हितम् । कर्त्तव्यं हि परं शेषं, ज्ञेयं संसारबन्धनम् ॥३३३॥ इत्युदित्वा जगौ राजा, मूलामात्यं प्रति स्फुटम् । अहो संसारवासान्मे, साम्प्रतं विरतं मनः ॥३३४।। तेन त्वं पृच्छ्यसे पूर्वं, श्रीनिवासः श्रियो गृहम् । मत्पदे स्थाप्यते पुत्रो, राज्यभारधरः क्षमः ॥३३५।। तस्मिन्नेव क्षणे तत्र, वनपालो व्यजिज्ञपत् । स्वामिन् ! भुवनचन्द्राह्वोऽत्रागतः केवली गुरुः ॥३३६।। इत्थं श्रुत्वा सहर्षोऽभूद्भूपतिर्भूरिदानतः । तं सन्तोष्य ततश्चित्ते, चिन्तयामास भावतः ॥३३७|| अहो दुग्धे सिताक्षोदो, घेवरे घृतमोचनम् । इष्टं वैद्योपदिष्टञ्च, क्षुधिते भक्ष्यमागतम् ॥३३८॥ अग्रे मे विरतं चित्तं, जातो गुर्वागमः पुनः । प्रस्तावे वाञ्छितो वृक्षः, पुष्पितः फलितः पुनः ॥३३९॥ एवं विचार्य भूपोऽसौ, गुरुवन्दनहेतवे । परिवारयतोऽचालीत, सम्प्राप्तः सरिसन्निधौ ॥३४०॥ तिस्रः प्रदक्षिणा दत्त्वा, प्रणम्य विधिना गुरुम् । उपविश्य यथास्थानं, शुश्रावेति स देशनाम् ॥३४१।। सुमाणुसत्तं सुकुलं सुरूवं, सोहग्गमारुग्गमतुच्छमाऊ । रिद्धि समिद्धि च पहुत्तकित्ती, पुणप्पसाएण लहन्ति सत्ता ॥३४२॥ []
15
20
25