________________
5
अष्टमः पल्लवः]
[३४५ सुस्वादं शुभगन्धिमोदकदधिक्षीरेक्षुशाल्योदनं, द्राक्षापर्पटिकासिताघृतयुतास्वर्ग:समानादिकम् । भुक्तं सत्सहसैव यत्र मलतां सम्पद्यते सर्वतस्तं कायं सकलाशुचिं शुचिमहो मोहान्धिता मन्वते ॥३४३॥ दहति मदनवह्निर्मानसं तावदेव, भ्रमयति तनुभाजां कुग्रहस्तावदेव । छलयति गुरुतृष्णाराक्षसी तावदेव, स्फुरति हृदि जिनोक्तो वाक्यमन्त्रो न यावत् ॥३४४॥ श्रीर्जलतरङ्गतरला, सन्ध्यारागस्वरूपमपि रूपम् । ध्वजपटचपलञ्च बलं, तडिल्लतातुल्यमेवायुः ॥३४५॥ इत्थं विज्ञाय विदुषा, कर्त्तव्यः सफलो भवः । प्रमादं दूरतो मुक्त्वा, कार्यो धर्मेषु चोद्यमः ॥३४६॥ सप्तक्षेत्र्यां यथाशक्ति, व्ययं कुर्वन्ति चोत्तमाः । सप्तव्यसनेषु रता, दृश्यन्ते चाधमा नराः ॥३४७॥ देशनान्ते नरेन्द्रोऽसौ, पप्रच्छ रचिताञ्जलिः । कामाक्षा साऽभवद्राज्ञी, मयि कामवशा कथम् ? ॥३४८॥ सूरिरूचे भ्रातृजाया, याऽभूत् पूर्वभवे तव । सरागा त्वयि सा जाता, परं न प्राप वाञ्छितम् ॥३४९।। मृता च स्मितवाक्येन, पत्यौ चात्यन्तरागिणी । रौद्रार्तध्यानयोगेन, प्रथमे नरके गता ॥३५०॥ आयुः सम्पूर्य सा तत्र, भवं भ्रान्त्वाऽभवत् द्विजी । बालत्वे विधवा जाता, तत: साऽभूत् तपस्विनी ॥३५१।। कृत्वा तपश्चिरं मृत्वा, कामाक्षाऽभून्नृपप्रिया । प्राग्भवस्नेहयोगेन, सा जाता त्वयि रागिणी ॥३५२।। विषयार्थं तथोक्तानि, वचनानि बहून्यपि । भवेऽस्मिन् मुक्तिगामी त्वं, तेन शीलं न खण्डितम् ॥३५३॥
20
25