________________
[धर्मकल्पद्रुमः एवं पूर्वभवं श्रुत्वा, प्राप्य जातिस्मृतिं पुनः । सूरिं नत्वा नृपश्चन्द्रोदयः स्वगृहमागतः ॥३५४।। अन्यदा भावयन् भावं, चित्ते राजा व्यचिन्यत् । विमानमानमुत्तुङ्गं, कारयामि जिनालयम् ॥३५५।। यैर्नरैर्निजवित्तस्य, मानेन जिनमन्दिरम् । कारितं चोद्धृतस्तेन, निजात्मा भवसागरात् ॥३५६॥ आकारिता घना राज्ञा, शिल्पिनः कुशलास्ततः । वास्तुविद्यासु विख्याता, विश्वकर्मोपमा गुणैः ॥३५७॥ मुहूर्तेऽथ शुभे शुद्धभूपीठे च सुदैवते । उन्नतं चोत्तमं पीठं, स्थापितं स्थिरलग्नके ॥३५८॥ क्रोशार्द्धपृथुलः क्रोश-दीर्घः क्रोशसमुन्नतः । चतुर्दारो हेममयः, प्रासादस्तत्र निर्मितः ॥३५९॥ तस्यैव परितो देवकुलिकाश्च द्विसप्ततिः । कारिता मूलभवनसदृशाः श्रेणिसंस्थिताः ॥३६०॥ प्रासादोऽयं भुवि ख्यातस्त्रैलोक्यविजयाभिधः । प्रतिष्ठा तस्य बिम्बानामपि सङ्घन निर्मिता ॥३६१॥ सुवर्णरत्नरूप्याद्यैः, प्रतिमास्तत्र कारिताः । प्रतिमा चादिनाथस्य, मूलस्थाने निवेशिता ॥३६२॥ भूतभाविवर्तमानजिनानां तत्र मूर्तयः । स्थापिताश्च विदेहानां, वर्त्तमानार्हतामपि ॥३६३॥ शाश्वतानां जिनानाञ्च, चतस्त्रः प्रतिमास्तथा । प्रतिमा यक्षयक्षिण्योः, स्थापिता अपरा अपि ॥३६४॥ सत्सामिकवात्सल्यं, कृत्वा वस्त्रादिकार्पणम् । कृतं राज्ञाऽथ सर्वेषामित्यभूदुत्सवो महान् ॥३६५॥ कृतं हि जन्मसाफल्यं, चन्द्रोदयमहीभुजा । स्वनाम लिखितं शुभ्रं, निश्चलं चन्द्रमण्डले ॥३६६॥