________________
अष्टमः पल्लवः ]
इत्यादिधर्म्मकर्माणि कुर्व्वन् श्रीजिनशासनम् । दीपयामास भूपालः, कृपालुः सर्वजन्तुषु ॥ ३६७॥ अन्यदा सन्निधौ तस्य, प्रासादस्य नरेश्वरः । पौषधं धर्मशालायां, जग्राह स्थिरमानसः || ३६८॥ तदैवं भावयामास, भावनां भवनाशनीम् । धनयौवनराज्यानि, न स्थिराणि शरीरिणाम् ॥३६९॥ जरामृत्युमहादुःखैः, पीडितानां हि देहिनाम् । चातुर्गतिकसंसारे, शरणं नास्ति कुत्रचित् ॥३७०॥ न याति कतमां योनिं कतमां वा न मुञ्चति । नटवन्नृत्यति प्राणी, विषमे भवनाटके ॥ ३७१ ॥ एकोऽहं नास्ति मे कश्चिन्नाहमन्यस्य कस्यचित् । एक उत्पद्यते जन्तुरेक एव विपद्यते ॥ ३७२ ॥ एको मे शाश्वतो ह्यात्मा, ज्ञानदर्शनसंयुतः । शेषा भावा हि मे बाह्याः सर्व्वे संयोगलक्षणाः ॥३७३॥ भावना द्वादशाप्येवं, तस्य भावयतः सतः । अवधिज्ञानमुत्पेदे, जगद्भावप्रकाशकम् ॥३७४॥ विशेषात् ज्ञातवान् भूपः, संसारासारता तदा । पौषधं पारयामास, प्रभाते विधिना सुधी ॥ ३७५॥ राज्यं संस्थापयामास, श्रीनिवाससुतं नृपः । गुरोर्भुवनचन्द्रस्य, पार्श्वे संयममग्रहीत् ॥३७६॥ गुर्व्वादेशात् श्रुतज्ञोऽसावेकाकिप्रतिमां धरन् । विहरन् भूतलेऽन्येद्युरेकस्मिन्नगरे ययौ ॥३७७॥ उष्णकाले च मध्याह्ने, सहन्नातापनां भृशम् । तत्र प्रेतवने साधुः, कायोत्सर्गे स्थितः स्थिरम् ||३७८॥
असुरेण पूर्व्ववैरादुपसर्गाः कृता इति । दन्ताभ्यां गजरूपेण, हतश्चोत्पाटितस्ततः ॥ ३७९ ॥
[ ३४७
5
10
15
20
25