________________
अष्टमः पल्लवः]
[३३५ द्वाभ्यां तु लकुटै ढं, कुट्टिता खण्डशः कृता । व्यापाद्य जरती सर्वे, चलिताः पूर्वदिक्पथम् ॥२१७।। यान्त्यरण्ये नदीशिप्रातटे रम्यं महापुरम् । पश्यन्ति प्रौढिमप्राप्तं, त्रैलोक्यतिलकोपमम् ।।२१८।। आम्रजम्बीरनारङ्गपुन्नागकुटजद्रुमाः । तमालतालहिन्तालकुलारामा मनोहराः ॥२१९।। वापीकूपतटाकानि, मठः सत्रगृहाणि च । स्वर्गतुल्याः प्रदेशाश्च, दृश्यन्ते यत्र पत्तने ॥२२०।। शालः शोभति सौवर्णः, कपिशीर्षकरम्बितः । विस्फुरद्गोपुरद्वारध्वजतोरणबन्धुरः ॥२२१।। विपणं विततं वस्तु , सकलं यत्र दृश्यते । विष्णूदरे यथा दृष्टं, मार्कण्डेन महर्षिणा ॥२२२॥ सौधश्रेणिविमानानां, पङ्क्तीवात्र विभाति च । यज्जिनालयमूर्द्धस्थैर्हेमकुम्भैः सुशोभितम् ॥२२३॥ दृष्ट्वाऽथ सर्व्वतः शून्यं, राजमार्गे गता नराः । विलोक्याश्वपदानि द्राग् , राज्ञः सदनमन्वगुः ॥२२४।। ततस्तत्र गतास्तेऽग्रे, वेश्म पश्यन्ति बन्धुरम् । सहस्रशिखरं शुभ्रं, कैलासाचलसोदरम् ॥२२५।। प्रविष्टाः पुरतो द्वारं, प्रवालदलमण्डितम् । सशङ्कपादपातास्ते, नीलभूमौ जलभ्रमात् ॥२२६।। दृष्टा पुरो निविष्टा च, वृद्धिका छिन्ननासिका । स्थूलदेहप्रभापूरपूरिताऽशेषदिग्मुखा ॥२२७।। नता दत्ते साऽऽशिषं भोः ! सुभार्यासङ्गमोऽस्तु वः । रम्याभिः सप्तकन्याभिरर्थ(घ)दानेन ते वृताः ॥२२८।। धृष्टोऽप्यग्रेश्व(स)रीभूय, पप्रच्छ जरती रयात् । मातः ! शून्यपुरस्थाः का, इमाः कन्याः सुरीसमाः ? ॥२२९।।
25