________________
ॐ
[धर्मकल्पद्रुमः योगिन्यः सम्मुखीभूय, मातृवत् साङ्गतां गताः । आलिङ्ग्य ताः पतन्ति स्म, जरत्याः पादपद्मयोः ॥२०४।। उपवेश्यासने रम्ये, पर्युपास्याधिकाऽधिकम् । वदन्ति मातृके ! चैताः, किं नानीता(तो) बलिस्त्वया ? ॥२०५।। डोलत्करी बभाषे ताः, स्वस्था भवथ वत्सिकाः । आनयाम्यहं हत्वैतान् , पुरुषान् भवतीकृते ॥२०६।। तावदेक: समायातः, सप्तमो दुर्बलः पुमान् । चतुर्दशी प्रतीक्षध्वं, पुष्टिं श्रयति सोऽपि च ॥२०७।। मद्यमांसाद्यमासाद्य, निवृत्ता सा विसज्जिता । धृष्टो व्यलोकयत् सर्वं, स्तम्भस्यान्तरितो विभीः ॥२०८।। जरत्या रूपमाधाय, सुप्ता सीकोतरी पुनः । शाकिन्या हि जनो जग्धो, विश्वासस्य विश्वगोचरे ॥२०९॥ सचिन्तो धृष्टको दध्यौ, शाकिन्याः सङ्कटे पुनः । पतितो यामि यत्राहं, शाकिन्यास्तत्र सम्भवः ॥२१०।। ध्यायतीत्युद्गते सूर्ये, गताः सर्वे तृणार्थिनः । धृष्टेन रात्रिवृत्तान्तो, मूलतः कथितोऽखिलः ॥२११॥ ते प्रोचुर्न कदा मातुः, कुचिह्न किञ्चिदीक्षितम् । स प्रोचे याम्यहं यूयं, तिष्ठन्तु सुखलालसाः ॥२१२॥ ते विमृश्य वदन्ति स्म, रात्रिमेकां विलम्बय । दर्शयास्माकं वृत्तं तज्जरत्या विश्वघातकम् ॥२१३।। आगता भारकान् लात्वा, विधाय निखिलं च ते । समालोच्य ततः सर्वे, सुप्ताः कपटनिद्रया ॥२१४।। पूर्ववत् प्रकटं वृत्तं, वृद्धायाश्च विलोकितम् । तेऽन्योऽन्यं विमृशन्ति स्म, किं कर्त्तव्यमतः परम् ॥२१५।। धृष्टोऽथ कथयत्येवं, मार्यैषा निद्रयान्विता ।
द्वाभ्यां पादौ करौ द्वाभ्यां, धृतौ चैकेन मस्तकम् ॥२१६॥ १. मातृष्वसांगतां गताः प्र० ।
20
25