________________
अष्टम: पल्लव: ]
,
सूरः पुनरुवाचैषा, तृणाम्भोभिः करोति किम् ? । ते वदन्ति किमस्माकं, चर्चयाऽध्वग ! तेऽथवा ? ॥१९१॥ सोऽचिन्तयद् दृशा तावत् पश्यामि किल कौतुकम् । तैः सार्द्धमगमत् सूरो, धृत्वा शिरसि पूलकम् ॥१९२॥ पृष्टस्तैरभिधानं किं ? धृष्टो नामेति सोऽवदत् । सप्तमः सोदरोऽस्माकमित्युक्त्वा ते गृहे गताः ॥१९३॥
भारकान् न्यस्य गम्यन्ते (शीर्षाग्रे), जलैर्भृत्वा च कुण्डकम् । धृष्टेन सह सम्प्राप्ता, वृद्धापार्श्वं प्रहर्षिताः ॥१९४॥
वृद्धया भाषिता वत्साः ! सप्तमः कोऽत्र दुर्बल: ? । ते वदन्ति वने दृष्टः, प्रापितो मातुरन्तिके ॥ १९५ ।। जरती सादरं धृष्टं, पृष्ठे न्यस्य करद्वयम् । ऊचे वत्स ! वरं दृष्टो, दुर्बलो दैवतोऽधुना ॥ १९६॥ यदृच्छया चिरं पुत्र !, भुङ्क्ष्व तिष्ठ गृहे मम । सोऽवदन्नम्ब ? तिष्ठामि, जन्मदुःखी तवान्तिके ॥१९७॥ स्नात्वेच्छाभोजनं भुक्त्वा, तिष्ठन्नेष व्यचिन्तयत् । क्व याति तृणपानीयं, कथमायान्ति सम्पदः ? ॥१९८॥ रात्रौ विलोकयाम्यद्य, कारणं चित्रकृन्नृणाम् । पल्यङ्के हंसतूल्यां स, सुप्तो जागर्त्ति कैतवात् ॥ १९९॥ अर्द्धरात्रे व्यतिक्रान्ते, वृद्धा प्राह स्फुटाक्षरम् । सुप्तो जागर्ति कोऽवाऽत्रेत्युक्ते कोऽपि न जल्पति ॥ २००॥ तज्जीर्णमञ्चकं मुक्त्वा, सा गताङ्गणके क्षणात् । भूमौ निपत्य जाताऽथ, वडवा दुष्टमन्त्रतः ॥ २०२॥
[ ३३३
सर्वास्तृणान् (सर्वं तृणं) भक्षयित्वा, जलं पीत्वाऽखिलं क्षणात् । जाता रूपवती नारी सर्व्वाभरणभूषिता ॥ २०२॥ निर्गता याति सा शीघ्रं, सूरस्तत्पृष्ठगोऽभवत् । विवेश विवरं योगियोगिनीशतसङ्कुलम् ॥२०३॥
5
10
15
20
25