________________
[धर्मकल्पद्रुमः भ्रातृजायां प्रणम्यैष, स्थितः सद्भक्तिकीलितः । देवरं दयिताहीनं, शुश्रूषति दिवानिशम् ॥१७८॥ तच्छिरस्यन्यदा तैलं, क्षिपति स्वैरचेष्टिता । भ्रातृजाया तदायातो, हालिको रश्मिसंयुतः ॥१७९।। सोऽवदन्मातः ! मिण्ढाख्यो, मृतो वामवृषोऽधुना । वापवेला प्रयात्येषा, बलीवर्दो विलोक्यते ॥१८०।। सहसा साऽक्षिपच्चूर्णं, मुस्तके देवरस्य च । ककुद्यान् तत्क्षणाज्जज्ञे, यियासुरिव यः खि(ख)लम् ॥१८१।। तं गृहीत्वा गतः सीरी, सीरे तं वाहयेच्चिरम् । एकदा त्रुटिता नस्ता, जातः सूरः स्वरूपभाक् ॥१८२।। भयाच्छीघ्रं पलायिष्ट, पृष्ठौ धावति हालिकः । स गच्छन्मिलितो ज्येष्ठबान्धवस्यैकमार्गतः ॥१८३।। भ्रात्राऽथ भाषितः सूरः, क्व यासि व्रणजर्जर: ? । एहि बन्धो ! समालिङ्ग्य, सुखं तिष्ठ ममौकसि ॥१८४।। सोऽवदत् तव भार्या हि, शाकिनी याहि याहि भोः । तयाऽहं वृषभं कृत्वा, कामं कदथितोऽधुना ॥१८५॥ भ्रातस्तद्याहि नाहं ते, गेहेमेष्यामि निश्चितम् । वने यास्यामि सन्त्यत्र, 'राक्षस्यो वनिताः किल' ॥१८६।। ब्रुवन्नेवं व्रजत्येष, महारण्ये पपात सः । पुष्टान् तृणभराक्रान्तान् षड् नरान् दृष्टवानथ ॥१८७।। निर्मानुषे वने पश्यन् , स तान् पप्रच्छ सादरम् । मणिमाणिक्यसौवर्णभूषणाः किं तृणावहाः ? ॥१८८।। ते वदन्त्यास्ति नार्येका, वृद्धा वार्धक्यबाधिता । भारकान् षट् तथा नीरं, नित्यमस्माभिरानयेत् ॥१८९।। यदृच्छया ददात्यन्नं, वसनं भूषणं परम् ।
जीर्णमञ्चकसुप्तापि, कल्पवल्लीव जङ्गमाः ॥१९०॥ १. ऽजासूरिख जले खिलम् । प्र०
15