________________
[३३१
अष्टमः पल्लव:]
तत् श्रुत्वा शङ्कितः सूरश्चिन्तयामासिवानिति । शाकिनीनां समूहेऽहं, पतितः कूटकोटरे ॥१६५।। मासप्रान्ते पुनः प्राप्ता, मार्जारी चतुरा सिता । पूर्वरीत्या चिरं युद्ध्वा, कृष्णे म्लानत्वमागते ॥१६६।। गता सिता स्थिते कृष्णे, पृष्टा सूरेण कारणम् । सुन्दरी भाषते देवाऽस्मन्मन्त्रः स्तोकशक्तिदः ॥१६७।। अस्त्येकं कारणं प्रौढं, त्वदधीनं दयानिधे ! । यदि त्वमावयोः सक्तः, प्रपद्यस्व मयोदितम् ॥१६८॥ प्रीत्या सूरेण ब्रूहीति, सोक्ता पुनरभाषत । श्वेता युध्यति तत्काले, त्वं ब्रूयाः प्रकटाक्षरम् ॥१६९।। लाहि कृष्णे ! सितामेतां, खाद खाद क्षणादपि । तवोक्त्याऽऽवां बलीभूय, मारयिष्याव एकिकाम् ॥१७०।। तृतीयवारमायाता, श्वेता कृष्णे परस्परम् ।। युद्ध्यन्ते यावता भग्ने, कृष्णे सूरोऽब्रवीत् ततः ॥१७१।। लाहि लाहि क्षणात् खाद, कृष्णे ! श्वेतां तु मारय । इत्युक्ते म्रियमाणे द्वे, सितां जगृहतुर्गले ॥१७२।। मृतप्रायां सितां दृष्ट्वा, सूरश्चित्ते त्वचिन्तयत् । मत्पुण्ययोगतः श्वेता, मरिष्यति वचोवशात् ॥१७३।। मद्वाण्या चेन्मरिष्येते, कृष्णे अपि कदाचन । विलोकयेऽहमाश्चर्यं, विपरीतं वदामि तत् ॥१७४।। सूरः सुव्यक्तमाचष्ट, श्वेते ! मारय कृष्णके । वाक्छलात् श्वेतया कृष्णे, मृतरूपे कृते क्षणात् ॥१७५।। तिस्रोऽपि यावता जाता, मृता युद्धान्मिथो रयात् । सूरः प्रहर्षितो बाढं, 'गतो व्याधिर्निरौषधः' ॥१७६।। अकृत्वोर्ध्वक्रियां सूरो, गतो भ्रातृगृहे भयात् । भ्राता न विद्यते गेहे, गतो ग्रामान्तरं स च ॥१७७।।
15