________________
B]
[धर्मकल्पद्रुमः वाससी शुचिनी धृत्वा, करे कृत्वाऽक्षतानथ । उभे वेद्यां गते तावत्कृष्णसर्प ददर्शतुः (ददृशतुः) ॥१५२॥ ताभ्यां तौ बहिणौ शीघ्रं, छण्टितौ मन्त्रिताक्षतैः । स ताभ्यां सहसा सर्पोऽर्द्धार्द्धं कृत्वा धृतो मुखे ॥१५३।। शब्दं शिखण्डिनौ कृत्वा, रभसा नभसा गतौ । सूरः सविस्मयं दध्यावहो मन्त्रविजृम्भितम् ॥१५४॥ स्नात्वा महोत्सवं कृत्वा, भुङ्क्ते भोगान् प्रियायुतः । ददौ दानं महर्षिभ्यः, पुनर्जन्म त्वमन्यत ॥१५५॥ हिण्डोलादागतान् लोकान् , चतुरा पृच्छति स्म सा । सूरः किं कुरुते लोका?, दत्ते दानं वदन्ति ते ॥१५६॥ मार्जारी सा सिता भूत्वा, गता मत्सरचेष्टिता । सुन्दरीभवने शब्दं, करोति कुटिलाशया ॥१५७।। माता पुत्री च तां दृष्ट्वा, भूत्वा कृष्णबिडालिके । सम्मुखीभूय तत्सार्द्धं, युध्येते ते भृशं भृशम् ॥१५८।। उत्प्लुत्योत्प्लुत्य भूमौ ताः, पतन्ति मूच्छिता मिथः । क्रन्दन्ति क्रूरशब्देन, नखदन्तक्षताकुलाः ॥१५९।। चतुरामन्त्रचातुर्यात् , ते द्वे विधुरतां गते । निज्जित्य द्वे गता श्वेता, नर्तयित्वा तदङ्गणे ॥१६०।। सूरः सर्वं विलोक्याशु , भयाक्रान्तोऽथ चोक्तवान् । किं युवां युध्यथोऽत्रैवं, मार्जारी का च पाण्डुरा ? ॥१६१।। तयैकया युवां द्वे किं, प्रघाताज्जर्जरीकृते ? । क्व गता श्वेतवर्णा किं, युष्माकं वैरकारणम् ? ॥१६२।। सुन्दर्युवाच पत्नी ते, चतुरा सिद्धशाकिनी । अहं त्वाधुनिका जाता, साऽम्बा नरपलाशिनी ॥१६३॥ सपत्नीवैरतः साऽत्रागता मन्त्रबलेन माम् । मारयितुं मातृयुक्तां, भर्तुरीp हि दुस्सहा ॥१६४।।
25