________________
[३२९
अष्टमः पल्लव:]
इति ध्यायन् भयभ्रान्तो, हिण्डोलारपुरे गतः । सशङ्कः सुन्दरीयुक्तो, भुङ्क्ते भोगान् दिवानिशम् ॥१३९।। विविधैः प्रीणनोपायैास्यहास्यकलादिभिः । सुन्दरी प्रीणयत्येनं, सूरो हर्षं दधौ न हि ॥१४०॥ श्वश्वा रह: स्वजामाता, पृष्टो दुःखस्य कारणम् । सोऽवदत् श्वश्रू किं मातर्दुःखं मे महितो(लो)दितम् ॥१४१॥ किं वृथा कथ्यते दुःखमसमर्थस्य देहिनः । दुर्बले मातृभुग्नौ वद(?) श्रुमोक्षः परस्परम् ॥१४२।। सा प्रोचे मेऽस्ति सामर्थ्य, कारणं तत् प्रकाशय । व्याधेर्विज्ञानहीनस्य, प्रतीकारक्रिया न हि ॥१४३॥ तेनोक्तं मरणं भावि, षण्मासैर्मम तक्षकात् । पत्या वशीकृतः सोऽथ, करोत्येवं छलादपि ॥१४४॥ मा भैषी: साऽऽह भद्रं ते, करिष्येऽहं सुतान्विता । स्वैरं भुक्ष्व सुखं तिष्ठ, दुःशङ्कां हृदि मा कृथाः ॥१४५।। श्लथीचकार शल्यं न, पूर्वपत्न्या कदर्थितः । तथापि सह सुन्दा , मृत्युभीरुः स तिष्ठति ॥१४६।। मात्रा पुत्र्याऽन्यदा गेहद्वारभित्योर्द्वयोरपि । लिखितौ बहिणौ रम्यौ, प्रत्यक्षाविव जङ्गमौ ॥१४७॥ निरन्तरं शूचीभूय, वेदिकामुपविश्य च । बहिणौ पूजयेते ते, ध्यानहोमपरायणे ॥१४८॥ आगते दिवसे तस्मिन् , प्रत्यक्षं यमरूपिणि । मृत्युभीरुः प्रियां प्रोचे, मध्याह्ने मरणं ध्रुवम् ॥१४९॥ साऽवदत् प्राणनाथ ! त्वं, धीरो भूत्वा विलोकय । शक्तिसामर्थ्यमस्माकं, चित्रकृद्विघ्नवारकम् ॥१५०।। गृहं गोमययोगेन, कृत्वा रम्यं विशेषतः । स्थापयित्वासनं मध्ये. स्थापितः प्राणवल्लभः ॥१५॥
15