________________
5
10
15
20
25
३८]
[ धर्मकल्पद्रुमः
सा खरबन्धनैर्बद्ध्वा, कशाघातैरपीडयत् । रारटीति भयाक्रान्तो, भुग्नोऽस्मि घातजर्ज्जरः ॥ १२६॥ रे यासि सुन्दरीगेहं, यातयातेत्यभर्त्सयत् । म्रियमाणं तदा दृष्ट्वा, मुक्तो दृष्टश्च योगिराट् ॥१२७॥ जटाभारभराक्रान्तो, डक्कारमरमण्डितः । भस्मभूषाकरालाक्षः, कौपीनकर्त्तिकान्वितः ॥१२८॥ लज्जिता चतुरा भीता, पतिता तस्य पादयोः । जटी वदति भद्रेऽयमाभानकस्त्वया कृतः ॥ १२९॥ करम्बं खादयेद्यो हि, विडम्बं सहते हि सः । दत्त्वा द्रव्यं तया भक्त्या, क्षमयित्वा विसज्जितः ॥१३०॥ सा चित्ते चिन्तयामास, चरितं ज्ञातवान् पतिः । उपायैर्मारयाम्येनं, ‘भिन्नस्नेहे कुतः सुखम् ? ' ॥१३१॥ ततः स्नात्वाऽङ्गणे गत्वा, कृत्वा गोमयमण्डलम् । श्वेतवस्त्राङ्किता धूपनैवेद्याद्यमढौकयत् ॥१३२॥ सद्गुग्गलगुटीरक्तकणवीरैर्धृतान्वितैः । चकारैकाग्रचित्ता सा, होमं हुङ्कारभीषणा ॥ १३३॥ पर्य्यन्ताहुतिपर्य्यन्ते, प्रत्यक्षस्तक्षकोऽवदत् । भद्रे ! किमर्थमाराद्धस्तुष्टोऽहं ते वरं वृणु ॥१३४॥ सोचे भक्षय भर्त्तारं, परपत्नीरतं मम ।
तक्षकः कथयत्येवं, षण्मासां (स्यं ) ते मरिष्यति ॥ १३५ ॥ सरीसृपं विसृद्यैषा, स्वस्थाने चतुरा स्थिता । सर्व्वं विलोकयामास, सूरः कुड्यान्तरे स्थितः ॥ १३६॥ सोऽचिन्तयदहो स्त्रीणां, दुश्चरित्रं वचोऽतिगम् । यया विडम्बितः सूरः, श्वा खरो भरटोऽजनि ॥१३७॥ यतः- स्रष्टा यन्न सृजेत् सृष्टौ, हरो ध्याने न दृष्टवान् ।
नोदरे वैष्णवे चास्ति, तत् कुर्व्वन्ति स्त्रियोऽदयाः ॥१३८॥