________________
[३२७
अष्टमः पल्लव:]
दशगव्यूतपर्य्यन्ते, हिण्डोलाराभिधे पुरे । सुन्दरीं तां निजां भार्यां, श्वश्र्वा सह मुमोच सः ॥११३।। निश्चिन्तश्चतरागेहे. भोगासक्तः स तस्थिवान । तामन्यदा रह: प्राह, याम्यहं सुन्दरीगृहे ॥११४।। तयोक्तमार्यपुत्र ! त्वं, स्वैरं गत्वा स्ववेश्मनि । भोगभङ्ग्या च दानेन, प्रीतिरीत्या च प्रीणय ॥११५।। चतुरा चिन्तयामास, कुशलो यास्यति प्रियः । तत्र स्थास्यति मे नूनं, गतो भर्ता भवेत् तदा ॥११६।। मुदा मोदकपाथेयं, दत्त्वा दुश्चूर्णमिश्रितम् ।
सा प्रेषयद्यतः पापाः, 'स्त्रियः कूटकरण्डिकाः' ॥११७।। यतः- अनृतं साहसं माया, मूर्खत्वमतिलोभता ।
अशौचं निर्दयत्वं च, स्त्रीणां दोषाः स्वभावजाः ॥११८॥ चिञ्चिणी मध्यमार्गेऽस्ति, नदी प्रक्षाल्य तत्र सः । हस्तपादमुखादीनि, पाथेयं भोक्तुमुद्यतः ॥११९।। दुष्टचूर्णप्रभावेण, श्वानो भूत्वा निवर्तितः । बद्ध्वा च तं दृढैर्बन्धैस्तताड चतुरा चिरम् ॥१२०।। श्वा करालो बभूवैष, मुक्तश्च कृपया तया । शतव्रणसमाकीर्णः, पट्टकैः परिवेष्टितः ॥१२१॥ शनैः शनैः पटुर्भूत्वा, मासान्ते पुनरब्रवीत् । याम्यहं सुन्दरीगेहे, पाथेयं प्रगुणीकुरु ॥१२२।। तदा करम्बकं दुष्टं, दत्त्वाऽथ प्रेषितः तया । तन्नद्यां भोजनार्थं च, निविष्टोऽथागमज्जटी ॥१२३।। स प्रार्थयत् होरात्रद्वयमाहारवर्जितः । देहि भोज्यं तेन दत्तं, भुक्त्वा स रासभोऽजनि ॥१२४।। पूर्ववच्चतुरागेहं, चचाल भरट: खरः । प्रियाकर्त्तव्यवीक्षार्थं, सूरोऽपि पृष्ठतो गतः ॥१२५।।