________________
5
10
15
20
25
३६]
[ धर्मकल्पद्रुमः
तत्प्रिया चतुरा तन्वी, गूढमन्त्रा मदोद्धुरा । कटुवाक्यैर्निजं नाथं, सा दूमयति कोपना ॥१००॥ सूरोऽथ चिन्तयामास, किं भार्यया तया मम ? | त्यजेद् दुष्टमतिं भार्यां, विद्यां विघ्नप्रदां पुमान् ॥१०१॥ इति मत्वा द्वितीयायै, प्रियायै प्रयतोऽन्वहम् । विलोकयति स ग्रामं नगरं नगरं प्रति ॥ १०२॥ अवन्त्यामस्ति वृद्धैका, यौवनस्थसुतान्विता । प्रार्थिता तत्सुता तेन, भव्यं वदति सा परम् ॥१०३॥ मद्युक्ता सुन्दरी पुत्री, तव गेहं समेष्यति । प्रतिपन्नं च सूरेण, कामार्त्तः किं करोति न ? ॥१०४॥ यतः- दिवा पश्यति नो घूकः, काको नक्तं न पश्यति ।
अपूर्व्वः कोऽपि कामान्धो, दिवानक्तं न पश्यति ॥१०५॥ सपत्नीभावतः पूर्व्वा, कलहायति दुःस्वरम् । अश्रान्तं कलहं ज्ञात्वा, पृथक् गेहेषु मोचिता ॥ १०६ ॥ चतुरा सुन्दरीगेहे, गत्वा गालीर्ददाति सा । अन्योऽन्यं ते मदोन्मत्ते, मत्सरं हृदि बिभ्रतुः ॥१०७॥ दन्तादन्ति पदापादि, मुष्टामुष्टि भुजाभुजि । युध्येते मत्सराक्रान्ते, मुण्डामुण्डि नखानखि ॥१०८॥ सौभाग्यं कलहो लोके, बिभर्टोको हि मत्सरः । यं सर्व्वा वनिता नित्यं धारयन्ति निजे हृदि ॥१०९॥ यतः - चन्द्रे शीतं रवौ तेजो, जले नीचाऽनुयायिता ।
पुष्पे गन्धः तिले तैलं, सपत्न्योः कलहस्तथा ॥११०॥ भर्तुर्भयान्न तिष्ठन्ति, कलहन्त्यधिकाऽधिकम् । पाटके विस्तृता वाणी, भार्यायुग्ममनर्थकृत् ॥१११॥ यतः - न वक्ति नो गृहाद्याति, नाप्नोत्यम्बुच्छटामपि । अक्षालितपदः शेते, भार्याद्वयवशो नरः ॥ ११२ ॥