________________
अष्टमः पल्लवः ]
विद्याधरशतैः सेव्यमानो मार्गे पदे पदे । गीयमानश्च गन्धर्वैः, स्तूयमानो महाबुधैः ||८७|| इत्थं महर्द्धियुक्तोऽसौ, पुष्पभद्रपुरे गतः । पुष्पचूलनरेन्द्रेण, सुतस्यागमनं श्रुतम् ॥८८॥ सम्मुखी निजसेना च, प्रेषिता बहुमानतः । महामहोत्सवात्तस्य, प्रवेशः कारितः पुरे ॥ ८९ ॥ राजोचे वत्स ! मन्येऽहं तव देशान्तरे पुनः । यज्जातं गमनं नूनं, तदे(दी) दृग्वृद्धिहेतवे ॥९०॥ पुत्रपुण्योदयं वीक्ष्य, भूपतिस्तेन संयुतः । प्रकुर्व्वन् धर्म्मकर्माणि, गमयामास वासरान् ॥९१॥ श्रीमद्विमलबोधाख्यो, ज्ञानी तत्रागतोऽन्यदा । तद्वन्दनाय भूपालो, जगाम सपरिच्छदः ||९२ ॥ तिस्रः प्रदक्षिणा दत्त्वा, तं प्रणम्य मुनीश्वरम् । उपविश्य च सद्धर्मदेशनामशृणोदिति ॥९३॥ भो भव्या ! भवपाथोधेः, पारं पुण्यैरवाप्यते । तत् पुण्यं दुर्लभं लोके, सुखस्यैकनिबन्धनम् ॥९४॥ धर्मपराणां पुंसां जीवितमरणे उभे अपि श्रेष्ठे । इह जीवतां विवेकः सद्गतिगमनं मृतानां तु ॥९५॥ लाङ्गलसहस्त्रभिन्ने, नास्ति धान्यं यथोषरे क्षेत्रे । तद्वज्जन्तूनामिह, पुण्येन विना कुतः सौख्यम् ? ॥९६॥ पुण्यप्रभावतो विघ्नश्रेणिर्विघटते नृणाम् । शाकिनीवृन्दमध्येऽपि, विजयी धृष्टको यथा ॥९७॥
तथाहि - भरतेऽवन्तिदेशेऽस्ति, धारानाम्नी वरा पुरी ।
यां निरीक्ष्यालका गर्व्वं, सर्वं त्यजति तत्क्षणात् ॥९८॥ तत्रास्ति सधनो राजपुत्रः सूरो बलोद्धतः ।
धीरो धीमान् गुणाढ्यश्च, दाता भोक्ता भयोज्झितः ॥९९॥ १. बहु यशः इति प्र. ।
[ ३२५
5
10
15
20
25