________________
5
10
151
20
25
]
एवं प्रोक्ते द्वयोर्युद्धं, सञ्जातं विषमं तदा । द्वाभ्यां विद्याबलेनैव, तत्र सैन्यद्वयं कृतम् ॥७४॥
[ धर्मकल्पद्रुमः
विद्या जयदायिन्या, जितस्तेन स खेचरः । मानं मुक्त्वा कुमारस्य, पादयोः पतितो मुदा ॥७५॥ दिनान् कति गौरवेण, संस्थाप्य दशमे दिने । तेनानन्दपुरे प्रैषि, सोऽनेकखेचरान्वितः ॥७६॥ बन्धुमत्या समं तत्रागतं ज्ञात्वा कुमारकम् । प्रवेशः कारितस्तस्य, नगर्यां भूभुजोत्सवात् ॥७७৷৷ राजोचे किं वर्णयामि, ज्ञानं वा ते पराक्रमम् ? | अज्ञानात् खेचराद्येन, वालिताऽसौ सुता मम ॥७८॥ राज्ञा तं सद्वरं ज्ञात्वा, सुता तस्य विवाहिता । समयं गमयामास, सुखेन स कुमारराट् ॥७९॥ §§ इतश्च पुष्पभद्राख्ये, पुरे श्रीपुष्पचूलराट् । ज्ञात्वा क्वचिद् गतं पुत्रं, हृदि दुःखं महद् दधौ ॥८०॥ सुतस्यान्वेषणे राज्ञा, प्रेषिता निजपूरुषाः ।
मुस्ते पृथिवीपीठे, देशग्रामपुरादिषु ॥ ८१ ॥
तत्र ज्ञातः स तैर्यस्मात्, तद्गुणैर्वासिता मही । भाग्यादिसद्गुणो मत्र्त्यः, प्रच्छन्नः किं हि तिष्ठति ? ॥८२॥ चरेभ्यस्तत्र विज्ञाय, पुत्रं राज्ञाऽथ प्रेषिताः । तस्याह्वानाय मन्त्रीशास्ते चानन्दपुरे गताः ||८३|| तदानन्दपुरेशेन, सूरसिंहेन भूभुजा । गन्तुकामाय जामात्रे, स्वीयं राज्यार्द्धमर्पितम् ॥८४॥ गजा दशसहस्राश्च, लक्षसङ्ख्यास्तुरङ्गमाः । षट्सहस्रा रथा दत्ताः, पञ्चलक्षाणि पायकाः ॥८५॥ भाण्डागारार्द्धवित्तं च, दत्त्वा भूपतिना ततः । सुतासंयुक्तया (जा) माता, प्रेषितोऽथ स्वके पुरे ॥ ८६ ॥