________________
अष्टम: पल्लव: ]
उत्तमा इति विज्ञाय, स्वप्राणैरपि सर्व्वथा । कुर्युः परोपकारं हि, महापुण्यमिदं भुवि ॥६१॥ उत्तमोऽवसरं प्राप्य, तृणवज्जीवितं धनम् । परित्यज्य परत्राणं, करोत्येव न संशयः ॥६२॥ विचिन्त्यैवं कुमारेण, त्रिकालज्ञा सुरी स्मृता । ज्ञात्वा कन्यास्वरूपं च स प्रोवाच नृपं प्रति ॥६३॥ कष्टसाध्यमिदं कार्यं, दृश्यते हे नराधिप ! । भवतां प्रार्थना चापि, क्रियते निष्फला कथम् ? ॥६४॥
अतः कन्यां दशदिनमध्येऽहं नानयामि चेत् । तर्हि वह्निप्रवेशो मे प्रतिज्ञेति कृता मया ॥ ६५॥ ज्ञात्वा स्वकार्यसिद्धिं च तत्सत्त्वं वीक्ष्य हर्षितः । सन्मानपूर्व्वकं भूपः, कुमारं विससर्ज तम् ॥६६॥ सम्यक् कन्यास्वरूपं तद्, ज्ञातुं चन्द्रोदयेन च । देवताराधनं चक्रे, प्रत्यक्षा सा सुरी जगौ ॥६७॥ हे कुमारेन्द्र ! वैताढ्ये, पुरे गन्धसमृद्धने । प्रौढ मणिकिरीटोऽस्ति, विद्याधरशिरोमणिः ॥६८॥ कृत्वा नन्दीश्वरे यात्रां, वलितः स इहागतः । बन्धुमतीं सुरूपां च, दृष्ट्वा हृत्वा गतो द्रुतम् ॥६९॥ गङ्गातटे स धवलकूटाख्ये पर्व्वतेऽधुना । गत्वा करोति सामग्रीं, परिणेतुं कनीमिमाम् ॥७०॥ चन्द्रोदय ! त्वमुत्तिष्ठ, तत्रावाभ्यां हि गम्यते । ततोऽसौ देवतायुक्तः, श्वेतकूटगिरौ गतः ॥७१॥ कुर्व्वन् विवाहसामग्रीं, खेचरस्तेन हक्कितः । अरे दुष्ट ! किमारब्धं, किमज्ञान ! न लज्जसि ? ॥७२॥ चौरीभूय हृता कन्या, त्वया पापात्मना ततः । दीयते तेऽधुना शिक्षा, देवखेचरसाक्षिका ॥७३॥
[ ३२३
5
10
151
20
25