________________
5
10
151
20
25
२]
[ धर्मकल्पद्रुमः
इति श्रुत्वा कुमारेण, चिन्तितं निजचेतसि ।
अहो हरति कः कन्यां, पुरेऽस्मिन् मयि संस्थिते ? ॥४८॥ ऊचेऽथ मयि चात्रस्थे, याति यत्तन्न सुन्दरम् । किन्तु किं क्रियते ? येन, न जानात्यत्र कोऽपि माम् ॥४९॥ नोपलक्षति मां कोऽपीत्युक्त्वाऽगान्मित्रयुक् पुरे । राज्ञाऽथ सूरसिंहेन सर्व्वत्रान्वेषिता सुता ॥५०॥ शुद्धिः कुत्रापि नो जाता, तस्या वार्तापि नो श्रुता । ततो महार्तितो भूपः, पतितो दुःखसागरे ॥५१॥ भूपदुःखमिति ज्ञात्वा गत्वा मन्त्रिसुतोऽब्रवीत् । स्वामिन्नत्रास्ति विद्यावान्, कोऽपि वैदेशिको नरः ॥५२॥ अतीव ज्ञानवान् सोऽस्ति निर्द्रव्यो दृश्यते पुनः । बहुद्रव्यव्ययं कुर्य्यात्, परदुःखं हरेत् सदा ॥५३॥ सर्व्वेभ्यो वाञ्छितं दत्ते, लीलावान् गुणसागरः । दाता भोक्ताऽतिवेत्ताऽसौ, सिद्धपुरुषसन्निभः ॥५४॥ तेन सार्द्धं ममाप्यस्ति, महामैत्री नराधिप ! । पृच्छ्यते सोऽपि कन्यार्थे, तच्छ्रुत्वा हर्षित नृपः ॥५५॥
प्रधानपुरुषा राज्ञा, तस्याह्नानाय प्रेषिताः । शृङ्गारिते गजे तैश्च, कुमारोऽसौ चटापितः ॥५६॥ वादित्राद्युत्सवैः सार्द्धमानीतश्च नृपान्तिके । अभ्युत्थानालिङ्गनादि, बहुमानं नृपो ददौ ॥५७॥ पृष्टः कुशवार्तां च, कुमारोऽसौ महीभुजा । तत्पार्श्वे श्रीनिवासेन पृष्टं चेति नृपाज्ञया ॥५८॥ हे मित्र ! नन्दिनी राज्ञो, नाम्ना बन्धुमती वरा । न ज्ञायते हृता केन, तत्स्वरूपं प्ररूपय ॥५९॥
कुमारेण तदाऽचिन्ति, व्यसने पतितं नरम् । स्वशक्त्या नोद्धरेद् यः किं, स नरः कथ्यते नरः ? ॥६०॥