________________
अष्टम: पल्लव: ]
इत्युक्तोऽपि ततस्तस्य, कुमारेण बलादपि । दापिता प्रवरा विद्या, ‘ह्युत्तमा उपकारिणः' ||३६|| गुरुप्रयुक्तविधिना, विद्या तेनापि साधिता । परं सिद्धाप्यसिद्धावत् साऽभूदशुचिचित्ततः ॥|३७|| अथानन्दपुरेऽगच्छत्, कुमारो द्विजसंयुतः । चन्द्रसेनाह्ववेश्याया, मन्दिरे तत्र संस्थितः ॥३८॥ सर्व्वं विद्याप्रभावेन, कार्यं कुर्यात् स नित्यशः । समीहितं सेवकानां, याचकानां च पूरयेत् ॥३९॥ द्विजो निष्फलविद्यः सन् तां विद्यां च गुरुं हसन् । निंदां कुर्व्वन् कुमारस्य, गतोऽन्यत्र पुरे क्वचित् ॥४०॥ चन्द्रोदयः स्थितस्तत्र, रञ्जयन् सद्गुणैर्जनान् । पुरेऽस्मिन् मतितिलको, मन्त्रीशोऽभूत् महर्द्धिकः ॥४१॥ श्रीनिवासः सुतस्तस्य, नामतो गुणतोऽपि च । चन्द्रोदयस्य सन्मैत्री, तेन सार्द्धमभूत् तदा ॥४२॥ अन्यदा तावुभौ मित्रे, वने देवकुले गतौ । क्रीडां कृत्वोपविष्टौ च, तत्र वार्त्ता परायणौ ॥४३॥ एतस्मिन् समये पुर्य्यां, जातः कोलाहलो महान् । तत्कारणावलोकार्थं, कुमारोऽप्रेषयन्नरान् ॥४४॥ ते गत्वा तत्र चागत्य, प्रोचुश्चन्द्रोदयं प्रति । अस्मिन्नेव पुरे राजा, सूरसिंहोऽस्ति विक्रमी ॥४५॥ तस्य बन्धुमती पुत्री, प्राणेभ्योऽप्यतिवल्लभा । रूपेण निज्जिता देवी, गुणैर्लक्ष्मीर्यया जिता ॥४६॥
अधुना सा गवाक्षस्था, ज्ञायते न हि केनचित् । हृताऽकस्मात् ततः पुर्यामस्ति कोलाहलो महान् ॥४७॥
१. कुमारः प्रैषय० इति स्यात् ।
[ ३२१
5
10
15
20