________________
३]]
10
[धर्मकल्पद्रुमः प्रीतिः पथिकयोर्जाता, द्वयोर्मिलितयोस्तयोः । परस्परं च कुर्वाणौ, वा तौ पथि चेलतुः ॥२३॥ महारण्येऽमिलद्धाटी, सा कुमारेण निजिता । क्षेमेणैव क्षमापुर्या, वने विश्रमितौ च तौ ॥२४॥ सिद्धकूटगिरेः शृङ्गे, तत्र विश्वेश्वराभिधः । एकोऽस्ति सिद्धपुरुषः, कुमारं प्रति सोऽब्रवीत् ॥२५॥ अहो सत्त्वतां मुख्य !, भाग्यसौभाग्यसुन्दर । तुष्टोऽहं तव पुण्येन, सिद्धविद्या ददामि ते ॥२६।। तिस्रः सन्ति सविद्या मे, प्राप्यन्ते या हि पुण्यतः । आयुर्मदीयमल्पं च, तेन तुभ्यं ददामि ताः ॥२७॥ विद्यादेवीभिरुक्तं मे, चन्द्रोदयनराय वै । त्वया वयं प्रदातव्यास्तेन तुभ्यं ददाम्यहम् ॥२८॥ तिसृणां शृणु माहात्म्यमेका स्वर्णप्रदा सदा । द्वितीया जयदा युद्धे, वैरिवर्गविनाशिनी ॥२९॥ तृतीया तु त्रिकालज्ञा, विद्यात्रयमिदं स्फुटम् । गृहाण साधनाहोमजपादिविधिसंयुतम् ॥३०॥ कृतं सिद्धेन सान्निध्यं, तस्य विद्याप्रसाधने । सिद्धास्तिस्रोऽपि ता विद्या, ददुद्देव्यो वस्त्रयम् ॥३१॥ सभाग्या यत्र गच्छन्ति, भवेयुस्तत्र सम्पदः । अपुण्या यत्र गच्छन्त्यापदस्तत्र पदे पदे ॥३२॥ गुरुं नत्वा कुमारोऽथ, जगाद विहिताञ्जलिः । त्वत्प्रसादाद्विभो ! विद्याः, सिद्धा मे स्वल्पकालतः ॥३३।। स्वामिन् ! कृत्वा प्रसादं मे, किञ्चिद्विप्राय दीयताम् । सिद्धोऽवादीदयोग्योऽयं, सर्वथा दृश्यते द्विजः ॥३४॥ हृदि दुष्टो मुखे मिष्टस्तस्य विद्या न दीयते । ईदृशोऽयमतो विद्या, दत्ताऽस्याऽनर्थकारिणी ॥३५॥
20
25