________________
101
अष्टमः पल्लवः]
[३१९ वनिता विषयासक्ता, गुप्तं प्रकटयन्ति च । न लज्जां नहि दाक्षिण्यं, स्वाजन्यं गणयन्ति न ॥१०॥ विचिन्त्यैवं कुमारेण, सा चेटी वारिता तदा । अरेरे किं कथयसि ?, न वाच्या वाग् ममेदृशी ॥११॥ परनारीं न पश्यामि, ममैषा जननी भवेत् । इति निर्भत्सिता दासी, गत्वा राज्ञीपुरोऽवदत् ॥१२।। तव चेतसि या वार्ता, तस्य स्वप्नेऽपि सा न हि । इति श्रुत्वापि कामाक्षा, तद्रागान्न निवत्तिता ॥१३॥ अन्येद्युः प्रेषिता दासी, तथा तेन न मानिता ।
राज्ञी तथापि नामुञ्चदाशां 'कामो हि दुर्जयः' ॥१४॥ यतः- दुर्जयोऽयमनङ्गो हि, विषमा कामवेदना ।
कृत्याकृत्यं न जानाति, भूतग्रस्त इव भ्रमेत् ॥१५॥ अन्यच्च- विकलयति कलाकुशलं, हसति शुचिं पण्डितं विडम्बयति ।
अधरयति धीरपुरुष, क्षणेन मकरध्वजो देवः ॥१६॥ कियद्दिनान्तरे दासी, तया सम्प्रेषिता पुनः । यतः कुव्यसनी कोऽपि, निषिद्धोऽपि न तिष्ठति ॥१७।। तदा चन्द्रोदयो दध्यावहो मे विधिवक्रता । ममात्र तिष्ठतः कश्चित् , कलङ्को हि चटिष्यति ॥१८॥ अतो देशान्तरं यामि, पुनः कति दिनान् किल । यथा तातो न जानाति, तथाऽहं निस्सराम्यथ ॥१९॥ मिषेणानेन दृश्यन्ते, विनोदाः कति भूतले । विमृश्यैवं वालयित्वा, चेटी सोऽथाचलन्निशि ॥२०॥ मार्गमुल्लङ्घयामास, स गच्छन् वायुवेगतः । तस्याटव्यां द्विजश्चैकोः मिलित: कपटी हृदि ॥२१॥ निर्गुणः सोऽतिनि:स्नेहो, वाचालेषु शिरोमणिः । प्रियवाक्यैः कुमारस्य, गृहीतं तेन मानसं ॥२२॥
15