________________
अष्टमः पल्लवः ॥
$धर्मः शर्म परत्र चात्र हि नृणां धर्मोऽन्धकारे रवि,
सापत्प्रशमक्षमः सुमनसां धर्माभिधानो निधिः । धर्मो बन्धुरबान्धवः पृथुपथे धर्मः सुहृन्निश्चलः, संसारे विषमस्थले सुरतरु स्त्येव धर्मात् परः ॥१॥ केवलज्ञानिवचसा, पुष्पचूलो विशेषतः । चकार धर्मकार्याणि, न्यायाद्राज्यमपालयत् ॥२॥ चिन्तातीतं ददद् दानं, स्तूयमानश्च याचकैः । चन्द्रोदयः पितुः सेवां, कुर्वन् धर्मपरोऽभवत् ॥३॥ सोऽन्यदा निजसौधस्थ, क्रीडां कर्तुं प्रवर्तितः । निजस्त्रीवृंदसंयुक्तो, दोगुन्दिक इवाऽमरः ॥४॥ तदा वीक्ष्य कुमारं तं, कामं कामस्वरूपिणम् । तस्यैवापरमातैका, कामबाणैः प्रपीडिता ॥५॥ कामेन विह्वलीभूता, कृत्याकृत्येषपण्डिता । लज्जां मुक्त्वा कुमारे सा, जाता भोगाभिलाषिणी ॥६॥ स्वचेटी चतुरामेकां, साऽऽकार्येदं वचोऽब्रवीत् । याहि रे मम कार्यार्थमत्रानय कुमारकम् ॥७॥ गत्वा चेटी कुमारं तं, प्रोचे शृङ्गारचेष्टया । त्वामाह्वयति कामाक्षा, त्वद्रूपेणातिमोहिता ॥८॥ ज्ञात्वा तस्या अभिप्रायं, कुमारोऽपि व्यचिन्तयत् । अहो विरुद्धं यल्लोके, तत्कुर्युश्चपलाः स्त्रियः ॥९॥