________________
सप्तमः पल्लवः]
[३१७ कृत्वा बालतपो मृत्वा, स जातोऽसुरदेवता । लघुभ्रातापि संवेगाज्जैनदीक्षामुपाददे ॥३९१।। अन्यदा विहरन्पृथ्व्यां वृत्तवैताढ्यसन्निधौ । रात्र्येकप्रतिमायां स, संस्थितो मेरुवत् स्थिरः ॥३९२॥ असुरेण तदा दृष्टः, कायोत्सर्गे मुनीश्वरः । तस्योपरि शिला मुक्ता, पूर्ववैरानुभावतः ॥३९३।। धर्मध्यानपरो मृत्वा, सोऽपीशाने सुरोऽभवत् । तत्र स्वर्गसुखं भुक्त्वा, च्युत्त्वा चाभूत् सुतस्तव ॥३९४।। असुरोऽथ भवं भ्रान्त्वा, भूयोऽप्यसुरतां गतः । कुमारं वीक्ष्य क्रीडन्तं, पुनर्वैरमसौ दधौ ॥३९५।। ततो हृत्वा भवत्पुत्रं, समुद्रोपरि सोऽगमत् । । एकवारं पुनः सोऽस्योपसर्गं प्रकरिष्यति ॥३९६।। तस्मिन्नवसरे तस्य, कुमारवचसा नृप ! । प्रतिबोधो ध्रुवं भावी, वैरं चापि शमिष्यति ॥३९७।। चन्द्रोदयो भवे पूर्वे, यच्चारित्रमपालयत् । ऋद्धिं स प्राप सर्वत्र, तस्यैव तपसो बलात् ॥३९८।। इति श्रुत्वा नरेन्द्रश्चान्येऽपि चन्द्रोदयादयः । श्राद्धधर्मं गृहीत्वा च, मुनिं नत्वा गृहाण्यगुः ॥३९९।। ज्ञात्वेत्थं पूर्वजन्माऽल्पतरहसनजं कर्म वैरं च बन्धौ, निन्दन्नात्मानमुच्चैव्रतसुकृतफलं चापि जानन् स्वचित्ते । धर्मे रक्तो विरक्तो दुरितकरणतश्चैष चन्द्रोदयाह्वः, क्रीडन्मित्रैः, प्रियाभिविषयमनभवन राज्यलीलां चकार ॥४००॥
15
इति श्रीवीरदेशनायां धर्मकल्पद्रुमे चतुर्थभावनाशाखायां
चन्द्रोदयाख्याने सप्तमः पल्लवः समाप्तः ॥७॥