________________
दा
[धर्मकल्पद्रुमः असौ पुत्रो मदीयोऽपि, नरत्वे प्राप्य सत्कुलम् । अल्पायुर्न स्थिरो जातो, मिथ्यात्वात् कृतहिंसया ॥३७८॥ ध्यात्वेति भववैराग्यात् , त्यक्त्वा राज्यादिकं नृपः ।
प्रव्रज्य दुस्तपः तप्त्वा, प्राप्य ज्ञानं शिवं ययौ ॥३७९।। ६६ इत्थं श्रीबलसारस्याख्यानं श्रुत्वा सुभावतः ।
पुष्पचूलो नृपोऽपृच्छत् पुनः केवलिनं मुनिम् ॥३८०॥ भगवन् ! ब्रूहि मे पुत्र, एष चन्द्रोदयाभिधः । क्रीडां कर्तुं वने प्राप्तः, कस्मात् केन हृतः पुरा ॥३८१।। केवल्यूचे नरेन्द्र ! त्वं, सावधानतया शृणु ।
कथ्यते तव पुत्रस्य, सम्बन्धः प्राग्भवोद्भवः ॥३८२॥ $$ विदेहे पुष्कलावत्यां, विजये विपुलापुरी ।
वणिक्पुत्रावुभौ जातो, भ्रातरौ स्नेहपूरितौ ॥३८३॥ वृद्धस्य वनिता या सा, पतिप्रेमानुवर्तिनी । महामोहवशाद्भर्तुविरहं सहते न हि ॥३८४।। अन्यदा केन कार्येण, वृद्धो ग्रामान्तरं गतः । हास्यतो भ्रातृजायाया, इत्युक्तं लघुबन्धुना ॥३८५।। मदीयः सोदरो मार्गे, केनचिद्वैरिणा हतः । तच्छ्रुत्वा तस्य भार्या सा, द्राग् मृता विरहाकुला ॥३८६।। पश्चात्तापो लघोर्जातो, हा मया दुष्कृतं कृतम् । स्त्रीहत्या मे वृथा लग्नाऽऽत्मानं चेति निनिन्द सः ॥३८७।। भ्रातृजायाङ्गसंस्कारं, कृत्वा शल्यमिवान्वहम् । स धरन् हृदि तद् दु:खं, तस्थौ भ्रात्रागमं स्मरन् ॥३८८।। कियद्भिर्दिवसैर्वृद्धो, भ्राता स्वस्थानमागतः । श्रुता सा स्वप्रियावार्ता, भ्रातृहास्यमपि श्रुतम् ॥३८९।। बन्धौ क्रोधस्तदोत्पन्नो, लघुना क्षामितोऽपि सः । न मुमोच क्रुधं चाभूद् , दुःखात् कोपाच्च तापसः ॥३९०।।
25