________________
सप्तमः पल्लवः ]
रोगैः प्रपीडितं पुत्रं दृष्ट्वा भूपोऽप्यनेकशः । वैद्यानाकार्य तस्याङ्गे, सच्चिकित्सामकारयत् ॥ ३६५॥ उपचारा घना वैद्यैः, कृता नाभूद् गुणः परम् । जलहीनो यथा मत्स्यो, न रतिं प्राप स क्षणम् ॥३६६॥ तौ मातापितरौ दृष्ट्वा, रोगग्रस्तं स्वनन्दनम् । महात्तिसागरे बाढं, पतितौ मोहमोहितौ ॥३६७॥ चिकित्सा च कृता वैद्यैरोषधीनां शतैरपि । नैव रोगक्षयो जातः, स मृत्युं प्राप कर्म्मतः ॥३६८|| महादुःखी प्रियायुक्ततो, भूपोऽभूत् पुत्रमृत्युतः । पप्रच्छ ज्ञानिनां चैवमल्पायुर्मे सुतः कथम् ? ॥३६९|| ज्ञानी जगाद हे राजन्!, बालेनानेन प्राग्भवे । मिथ्यात्वेन तपोभावाद् गृहीतं तापसं व्रतम् ॥३७०॥ कन्दमूलादिभोजी स, वह्न्याद्यारम्भकारकः । नीरेणागलितेनाभूत्, स्नानतर्प्पणतत्परः ॥३७१॥ यतः संवत्सरेण यत्पापं, कैवर्त्तकस्य जायते ।
एकाहेन तदाप्नोति, अपूतजलसङ्ग्रही ॥ ३७२ ॥ यः कुर्यात् सर्व्वकार्याणि, वस्त्रपूतेन वारिणा । स मुनिः स महासाधुः, स योगी स महाव्रती ॥३७३॥ तेनाज्ञानाज्जलचरादिकजीववधः कृतः ।
सोऽल्पायुस्ते सुतो जातो, दयातो दीर्घजीवितम् ॥३७४॥
दीर्घमायुः परं रूपमारोग्यं श्लाघनीयता ।
अहिंसायाः फलं सर्व्वं किमन्यत् कामदैव सा ॥ ३७५ ॥ [ यो.शा. / २ / ५२ ] दमो देवगुरूपास्तिर्द्धानमध्ययनं तपः ।
सर्व्वमप्येतदफलं हिंसां चेन्न परित्यजेत् ॥ ३७६ ॥ [ यो.शा./२/३१] भूपः श्रुत्वेति दध्यौ धिग्, मिथ्यात्वं भवकारणम् । पुण्यबुद्ध्यापि यज्जीवा, अर्जयन्त्येव पातकम् ॥३७७।।
[ ३१५
यतः
5
10
15
20
25