________________
२]
[धर्मकल्पद्रुमः क्षणं ते नाटकं कृत्वा, गता विद्याधरास्ततः । आयान्तो मिलितास्तेषां, सम्मुखाः खेचराः परे ॥३५२।। तेषां परस्परं युद्धं, सञ्जातं पूर्ववैरतः । बलेन युध्यमानास्ते, गता दूरतरं कियत् ॥३५३।। तदा नृत्यकृतामेका, प्रणष्टा मुख्यखेचरी । हता विद्याभृताऽन्येन, विलापं च चकार सा ॥३५४॥ श्रुत्वा विलापं बलसारभूपः, प्रधावितो रक्षणकाय तस्याः । सा वालिता तं समरे निहत्य, परं प्रहारा अभवन् नृपाङ्गे ॥३५५॥ इतश्च खेचरीभर्ता, रिपुं हत्वा समागतः ।
औषध्या व्रणरोहिण्या, तेन सज्जीकृतो नृपः ॥३५६।। राज्ञा पृष्टः स कस्त्वं भो !, जगादासौ शृणूत्तम ! । चन्द्रशेखरनामाहं, वैताढ्ये खेचराग्रणी: ॥३५७।। अस्मिन् चैत्येऽहमायातो, यात्रार्थं परिवारयुक् । कृत्वा पूजां सुनृत्यञ्च, यावता वलिता वयम् ॥३५८॥ तावता मिलितो वैरी, पूर्वद्वेषेण सम्मुखः । सञ्जातो मम सङ्ग्रामो, हतो युद्ध्वा मयाऽपि सः ॥३५९।। भाषा मम केनापि, वैरिणाऽपहृता तदा । रक्षिता तु त्वया भद्रोपकारश्च महान्कृतः ॥३६०॥ अहं त्वदीयकर्त्तव्यात् , तुष्टो जातोऽस्मि मानसे । तदौषधीं गहाणैकां, पत्रादीप्सितदायिनीम ॥३६१।। इत्युक्त्वा जटिकां दत्त्वा, नत्वा भूपं स खेचरः । गतः स्वस्थानके शीघ्रं, राजा स्वगृहमागतः ॥३६२।। तस्यौषधीप्रभावेण, लीलावत्यां सुतोऽजनि । सुखेन वर्षमेकं स, ववृधे यत्नलालितः ॥३६३।। ततः परं शरीरेऽस्य, ज्वरशूलशिरोऽर्तयः । कासश्च मूत्रकृच्छ्राद्या, अजायन्त महारुजः ॥३६४॥
15