________________
सप्तमः पल्लवः ]
तदा केवलिनाऽऽरेभे, देशना पापनाशनी । भो भव्याः ! श्रूयतां सम्यग्, विधाय स्थिरमानसम् ||३३९|| मानुष्यमार्यदेशश्च, कुलमारोग्यता पुनः । आयुरित्यादिसामग्री, दुर्लभा धर्म्मसाधने ॥३४०॥ यतः - भवकोटीष्वपि दुर्लभमिदमुपलभ्येह मानुषं जन्म । येन कृतं नात्महितं, निरर्थकं हारितं तेन ॥ ३४१॥
मा चिन्तय परच्छिद्रान् परविभवं माऽभिवाञ्छ मनसापि ।
"
मा ब्रूहि क्रूरवचनं, परस्य पीडाकरं कटुकम् ॥३४२॥ अहो अत्रैव संसारे, सुखं किमपि नो भवेत् । केन केन प्रकारेण, सुखिनोऽपि हि दुःखिनः ॥३४३॥ बालस्य तीव्रदुःखानि, दृष्ट्वा निजसुतस्य च । बलसारमहीपालो, निव्र्व्विण्णो भववासतः ॥३४४॥ तदा सभासदः, प्रोचुः, प्रभो ! को बलसारराट् । केवली स्माह भो भव्याः !, सम्बन्धः, श्रूयतामिति ॥ ३४५॥
तथाहि-- पुरे लीलापुरे रम्ये, बलसारनृपोऽभवत् ।
लीलावती प्रिया तस्य पतिप्रेमप्रमोदिनी ||३४६ ॥ अनपत्यत्वदोषेण, साऽत्यन्तं हृदि दुःखिनी । नित्यं वाञ्छति सन्तानं, न भवेत् किन्तु कर्म्मतः || ३४७|| अन्यदा मध्यरात्रौ स, जजागार नृपोऽथ च । शुश्राव मधुरं गीतं, दिव्यध्वनिमनोहरम् ॥३४८॥
मृदङ्गवंशसद्वीणातालदुन्दुभिसुस्वरान् ।
क्वापि श्रुत्वा नृपो दध्यौ, किमिदं दिव्यनाटकम् ? ॥ ३४९ ॥ पल्यङ्काद् भूप उत्थाय, वने गानानुसारतः ।
ययौ श्रीशान्तिनाथस्य, प्रासादस्तत्र वर्त्तते ॥३५०||
जिनाग्रे तत्र नृत्यन्तो, गायन्तश्चापि खेचराः । दृष्टास्तेनाथ तल्लीनो, नृत्यं पश्यन्नसौ स्थितः ॥३५१||
[ ३१३
5
10
15
20
25