________________
[धर्मकल्पद्रुमः एवं हि परदेशेषु , वर्षसप्तशतानि सः । कौतुकात् गमयामास, परिणीतं प्रियाऽष्टकम् ॥३२७।। अन्यदा स जजागार, यामिन्याः प्रहरेऽन्तिमे । सस्मार निजराज्यञ्च, तत्र यामीत्यचिन्तयत् ।।३२८।। आनयित्वाऽथ कमलमालां सर्वप्रियायुतः । विद्याभृत्सैन्यसंयुक्तः, आगतः स पुरे निजे ॥३२९।। पुष्पचूलो नृपस्तावत् , श्रुत्वा पुत्रागमं चिरात् । मीलनार्थं मह(हा)त्स्फू र्त्या, सम्मुखस्त्वरितं ययौ ॥३३०।। कृतानेकवधूद्वाहं, विद्याभृत्सैन्यसंयुतम् । लक्ष्मीयुक्तं विमानस्थं, पुत्रं दृष्ट्वा मुमोद सः ॥३३१।। हर्षाश्रूणि सृजन् भूप, आलिलिङ्ग निजाङ्गजम् । नानाविधवधूयुक्तः, पितुः पादौ ननाम सः ॥३३२।। सुन्दरीभिर्गीयमानः, स्तूयमानश्च बन्दिभिः । वाद्यनादैः समं पुत्रः, पुरे पित्रा प्रवेशितः ॥३३३॥ निजावासे स आगत्य, प्रियाभिः सह संस्थितः । वालिताः खेचराः सर्वे, सार्थे येऽत्र समागताः ॥३३४।। युवराजपदं दत्तं, पित्राऽस्मै भाग्यशालिने । आरोपिता समस्ताऽथ, राज्यचिन्ताऽपि नन्दने ॥३३५।। अन्यदा तत्पुरोद्याने, मुनिवृन्दसुसेवितः । आगात् केवली भुवनचन्द्रश्चन्द्र इवोज्ज्वलः ॥३३६।। विज्ञायागमनं तस्य, पुष्पचूलो नरेश्वरः । वन्दनार्थं ययौ तत्र, पुत्रादिपरिवारयुक् ॥३३७।। तिस्रः प्रदक्षिणा दत्वा, स ववन्दे मुनीश्वरम् । प्रमादं दूरतो मुक्त्वोपविष्टो रचिताञ्जलिः ॥३३८।।
20
१. आनाय्य इति स्यात् ।