________________
[३११
सप्तमः पल्लवः]
सोऽपहृत्य सुतास्ता मे, यावद् याति निजस्थितिम् । तावत् सिंहासनं शीघ्रं, कम्पितं निश्चलं मम ॥३१४।। मया विद्या ततः पृष्टाऽऽसनं मे कम्पते कथम् ? । देव्या तत्कथितं ज्ञानान्नन्दिनीहरणं मम ॥३१५।। निपात्याथ स्फुरद्रोषादुत्पलं तं निजौजसा । गृहीत्वा च सुताः पञ्च, त्वत्समीपेऽहमागतः ॥३१६।। इति श्रुत्वा कुमारोऽपि, जहर्ष निजमानसे । अथोवाच कुमारं तं, खेचरो मेघवाहनः ॥३१७।। श्रूयतां हे कुमारेन्द्र !, पुरा नैमित्तिकेन मे । मत्पुत्र्या नरमोहिन्यास्त्वं वरो भाषितो महान् ॥३१८।। त्वामत्रस्थमहं ज्ञात्वा, कन्यायुक्तः समागतः । सत्यीकुरु वचो ह्येतत् , तत्कुमारेण मानितम् ॥३१९।। तस्या अपि कृतं तत्र, पाणिग्रहणमुत्तमम् । सपुण्या यत्र गच्छन्ति, भवेयुस्तत्र सम्पदः ॥३२०।। कुमारं सप्रियं नत्वा, वैताढ्ये विमले पुरे । उत्सवात् सिंहनादेन, प्रवेशस्तस्य कारितः ॥३२१।। पुत्रीविवाहजङ्गोऽथ, कृतस्तेन सविस्तरः । अर्द्धराज्यञ्च जामात्रे, दत्तं तत्करमोचने ॥३२२॥ दत्ताश्च सकला विद्या, विधिना तेन साधिताः । चन्द्रोदयः सिद्धविद्यो, भूचर: खेचरोऽभवत् ॥३२३।। ज्ञात्वाऽथ पुत्रवृत्तान्तं, समराद्विजयो नृपः । आगत्य पादयोर्लग्नः, कुमारस्य महोन्नतेः ॥३२४।। भुवनश्रीवर्धू दत्त्वाऽपराधः क्षामितः स च । पुत्राभ्यां यत्कृतं वैरं, स विरोधश्च वारितः ॥३२५।। तस्य पुण्यप्रभावेण, सेवां विद्याधरा व्यधुः । स्थित्वाऽत्र कति वर्षाणि, सुखं भोगान् बुभोज सः ॥३२६॥