________________
[धर्मकल्पद्रुमः इति चिन्तापरो भूत्वा, स गतः स्वरथं प्रति । तावत् तत्र स्त्रिया हीनं, रथं पश्यति सर्वथा ॥३०१॥ सविषादस्ततो दध्यौ, हा हा क्वैषाऽपि मे प्रिया । सविस्मयोऽथ बभ्राम, सोऽटव्यामवलोकयन् ॥३०२॥ अग्रे ददर्श चोत्तुङ्गतोरणस्तम्भमण्डितम् । स्वर्णरत्नमयं रम्यं, प्रासादं प्रतिमान्वितम् ॥३०३।। बिम्बं युगादिनाथस्याऽऽलम्बनं भववारिधौ । दृष्ट्वा तत्र प्रविष्टोऽसौ, वन्दनाचनहेतवे ॥३०४॥ यावज्जिनस्य पूजां स, कृत्वा तद्ध्यानसंस्थितः । तावत् तत्र समायातो, विद्याभृन्मेघवाहनः ॥३०५।। तत्सार्थेऽस्ति सुतारत्नं, नामतो नरमोहिनी । पूर्वनैमित्तिकेनोक्तस्तस्याश्चन्द्रोदयो वरः ॥३०६॥ कुमारं प्राग्दृष्टमिव, दृष्ट्वा सा दधती मुदम् । पित्रा सह जिनेन्द्रस्य, पूजां कर्तुं प्रवर्तिता ॥३०७।। इतश्च सिंहनादोऽपि, स विद्याधरनायकः । संयुक्तः पञ्चपुत्रीभिरागात् तत्र जिनालये ॥३०८।। चन्द्रोदयोऽपि चैत्यार्चा, कृत्वा सिंहं पप्रच्छ तम् । कुतस्त्वमागतः पञ्च, कन्यास्ते मिलिता क्व च ॥३०९।। स प्रोचे पञ्चकन्यानां, सिंहनादः पिताऽस्म्यहम् । हे चन्द्रोदय ! सम्बन्धं, शृणु त्वं कथयामि यम् ॥३१०॥ वने प्राग् नृपः समरविजयो यस्त्वया जितः । कमलोत्पलनामानौ, ज्ञेयौ द्वौ तस्य नन्दनौ ॥३११।। कमलेन ततो वैराद्भुवनश्रीर्हता रथात् । तव शून्यं रथं मुक्त्वा , वैताढ्ये स द्रुतं गतः ॥३१२॥ द्वितीयेनोत्पलेन त्वं, मुक्तः प्रसादतः क्षितौ । अदृष्टं च कृतं गेहं, मत्पुत्रीपञ्चकं हृतम् ॥३१३।।
15
25