________________
[३०९
सप्तमः पल्लवः]
इति श्रुत्वाऽथ तातेन, प्रासादोऽत्र वनेऽप्ययम् । कारितश्च वयं पञ्च, मुक्ता वराप्तिहेतवे ॥२८९॥ सखीभिः सह सत्क्रीडां, वयं कुम्नॊ दिवानिशम् । पूरयेत् सर्व्ववस्तूनि, पिता रक्षां करोति च ॥२९०।। सम्पूर्णोऽवधिरथैव, जातोऽस्मद्भाग्यतः पुनः । आगतस्त्वं वरः प्रोक्त, आकारैरुपलक्षितः ॥२९१॥ इति श्रुत्वा कुमारोऽपि, विस्मयं प्राप मानसे । गाथार्थञ्च स्मरन् दध्यौ, हर्षपूरप्रपूरितः ॥२९२॥ अहो संसारवासेऽस्मिन् , विधेविलसितं महत् ।
दुर्घटं घटतेऽकस्मात् , सुघटं विघटं भवेत् ॥२९३॥ यतः- अम्भोधिः स्थलतां स्थलं जलधितां धूलीलवः शैलतां,
मेरुर्मत्कुणतां तृणं कुलिशतां वज्रं तृणप्रायताम् । वह्निः शीतलतां हिमं दहनतामायाति यस्येच्छया, लीलादुललिताद्भुतव्यसनिने दैवाय तस्मै नमः ॥२९४॥ असाध्यं साधयेत् यो द्राक्, सुसाध्यं नैव साधयेत् । विपरीतो हि यद्भावोऽत्राहो विलसितं विधेः ॥२९५॥ चिन्तयित्वेति यावत् स, मौनमाश्रित्य संस्थितः । तावत्ता वनिताः प्रोचुः, शृणु भाग्यनिधे नर ! ॥२९६।। सम्पूर्णे सार्धषण्मासावधौ जातस्तवागमः । अद्य लग्नदिनं चास्ति, कुरु पाणिग्रहं ततः ॥२९७।। पूर्वनिर्मितसामग्र्या, पञ्चानां पाणिपीडनम् । यावत्तेन कृतं तावन्न कन्यास्तत्र नो गृहम् ॥२९८।। एकाकिनं तदात्मानं, भूमिस्थं च ददर्श सः । चिन्तयामास किमिदं, चित्रमत्रेन्द्रजालवत् ? ॥२९९।। क्व गताः पञ्च कन्यास्ताः, सप्तभूमिगृहं क्व च । एतत्सर्वं क्षणेनैव, जातं मे स्वप्नसन्निभम् ॥३००।
25