________________
२]
[धर्मकल्पद्रुमः तन्मध्ये कौतुकान्वेषी, प्रवेशं कुरुते स्म सः । तद्गीतश्रवणे लुब्धो, मृगवन्नादमोहितः ॥२७६।। यदाऽसौ सप्तमी भूमिमारुरोह सुवेगतः । दृष्टाः कन्यास्तदा पञ्च, रूपसौभाग्यसुन्दराः ॥२७७।। ताः प्रेक्ष्य विस्मयपरो, यावत् पृच्छति किञ्चन । उत्थाय वनिताः सर्वाः, प्रतिपत्तिं व्यधुस्तदा ॥२७८।। तं सत्कृत्यासनाद्यैस्ता, लज्जाविनयतत्पराः । निजाङ्गानि च सङ्गोप्य, कुमारस्याग्रतः स्थिताः ॥२७९॥ ततश्चन्द्रोदयोऽपृच्छत् , हे भद्राः ! किं वने स्थिताः ? । इदं युक्तं न नारीणां, यद्वने स्थीयते स्वयम् ॥२८०।। का यूयं कस्य नन्दिन्यो ? युष्मद्वार्ता निगद्यताम् । विस्मयोऽस्त्येष मच्चित्ते, तेन पृच्छामि वेगतः ॥२८१॥ पञ्चमध्येऽथ कन्यैका, जगाद शृणु सात्त्विक ! ।
सम्बन्धः सकलोऽस्माकं, तव योग्यस्य कथ्यते ॥२८२।। IS वैताढ्ये खेचरेन्द्रोऽस्ति, चक्रवर्तिसमः श्रिया । सिंहनादाभिधः प्रौढः, श्रीमुखी तस्य च प्रिया ॥२८३।। तस्याः कुक्षीसमुद्भूता, वयं पञ्चापि कन्यकाः । लक्ष्मी-सरस्वती-गौरी,-जयन्ती-मेनिकाभिधाः ॥२८४।। वयं पञ्चापि नन्दिन्यः, सम्प्राप्ता यौवनं यदा । तदाऽस्मज्जनकोऽपृच्छत् , कञ्चिन्नैमित्तिकोत्तमम् ॥२८५।। अस्माकं पञ्चपुत्रीणां, भर्ती कस्को भविष्यति । भूचर: खेचरो वाऽपि, तं त्वं कथय मे स्फुटम् ॥२८६।। तदा नैमित्तिकेनोक्तमभिज्ञानयतं वचः । एकश्चन्द्रोदयः पञ्च, भूचर: परिणेष्यति ॥२८७।। सार्धेषु षट्सु मासेषु , गतेष्वद्यदिनात् किल । सोऽस्मिन् वने कुतो राजन् !, स्वयमेव समेष्यति ॥२८८।।
15