________________
सप्तमः पल्लवः ]
अस्मिन् जन्मनि मे भर्त्ता, चन्द्रोदयकुमारराट् । सहोदरा नरा अन्ये, ममासौ निश्चयः सदा ॥ २६३|| असौ शैलपुराधीशः, समराद्विजयो नृपः । तां कन्यामन्यदा तस्याः पितुः पार्श्वोदयाचत ॥२६४॥ प्रतिज्ञामिति विज्ञाय, न ददाति पिता सुताम् । समरस्तत्पुरोद्याने, ससैन्योऽथ समागतः ॥२६५॥ गुप्तवृत्त्या स्थितस्तत्र, कन्या क्रीडार्थमागता । पाप्यसौ विलपन्तीं तां हृत्वा भूप इहागतः ॥२६६|| अत्रस्थं त्वां कुतो हेतोर्ज्ञात्वाऽयं हन्तुमुद्यतः । कन्याधात्री त्वहं स्नेहात् तत्पृष्टिं द्रुतमागता || २६७॥ श्रुत्वा त्वन्नाम सैन्येऽत्र, मया त्वं चोपलक्षितः । अस्मात् समरविजया- त्तां कन्यां त्वं विमोचय ॥ २६८ ॥ कुरु पाणिग्रहं तस्याः, पूर्णा सन्धा यथा भवेत् । अस्या भाग्येन लब्धस्त्वं, प्रसङ्गाद् वाञ्छितो वरः ॥२६९॥ हृष्टेन समरेणाथ, भुवनश्रीः कुमारिका । सुशृङ्गारितसर्व्वाङ्गा, दत्ता चन्द्रोदयाय सा ॥२७०॥ सङ्क्षेपात् परिणीताऽथ, वने चन्द्रोदयेन सा । नत्वा कुमारमापृच्छ्य, स्वस्थाने समरो गतः || २७१॥ आरुह्याथ रथं रम्यं, कुमारः कन्यया सह । श्रीकुशवर्द्धनपुरे, गन्तुं मार्गे प्रवर्त्तितः ॥२७२॥ ss कियत्यपि गते मार्गे, तेन क्वापि वने वरे । अपूर्व्वध्वनिमद्गानं श्रुतमन्यत्र मार्गतः ॥ २७३ ॥ मत्वा कुतूहलं तत्र, रथं मुक्त्वा प्रियायुतम् । गतो नादानुमानेन, ददर्शाग्रे स ईदृशम् ॥२७४|| तत्रैकास्ति महावाटी, विविधद्रुमपूरिता । आवासश्चास्ति तन्मध्ये, सप्तभूमिमनोहरः || २७५।।
[ ३०७
5
10
151
20
25