________________
[धर्मकल्पद्रुमः $इत्यादि देशनां श्रुत्वा, चन्द्रोदयकुमारराट् ।
शुद्धं सम्यक्त्वमूलं तं, श्राद्धधर्मं गृहीतवान् ॥२५०।। जीवाजीवादितत्त्वानि, पृष्ट्वा स ज्ञातवान् पुनः । मिथ्यात्वस्य गतिं त्यक्त्वा, किञ्चिद्यावच्च पृच्छति ॥२५१।। अदृश्योऽभून्मुनिस्तावद्विस्मयात् तेन चिन्तितम् । मुनिमहोपकारी मे, धर्मं प्रोक्त्वा(च्य) गतः क्व सः ? ॥२५२॥ एतस्मिन् सिमये तत्राकस्मात् सैन्यं समागतम् । वेष्टयित्वा भटैः शीघ्रं, कुमारं प्रति भाषितम् ॥२५३॥ रे त्वां समरविजयो, रोषेणात्र हनिष्यति । इति श्रुत्वा स गाथार्थं, स्मृत्वा धत्ते स्म धीरताम् ॥२५४॥ सिंहनादं ततः कृत्वा, तत्सैन्यात् कस्यचिद्रथम् । गृहीत्वा तत्र चारुह्य, सङ्ग्रामे सम्मुखोऽभवत् ॥२५५।। रथं सर्वायुधैः पूर्णं, गृहीतं कटकं हतम् । दृष्ट्वा भटा इति प्रोचुः, सामान्यो नैष मानवः ॥२५६।। राजा समरविजयो, भग्नं दृष्ट्वा निजं बलम् । स्वयं डुढौके युद्धाय, गतश्चन्द्रोदयान्तिके ॥२५७।। गर्वितोऽस्त्रप्रहारं स, यावन्मुञ्चति तावता । लघुलाघविकी विद्यां, कृत्वा तेन धृतो द्रुतम् ॥२५८।। बद्धो जीवन्नसौ यावद्रथे संस्थापितो निजे । विनयात् समरस्तावत् , कुमारचरणेऽपतत् ॥२५९॥ उत्पन्नदयया मुक्तस्तदा चन्द्रोदयेन सः । इतश्चागत्य कापि स्त्री, कुमारं प्रत्यदोऽवदत् ।।२६०।। भो भद्र ! शृणु मे वाक्यं, पुरे श्रीकुशवर्द्धने । राज्ञः कमलचन्द्रस्यामरसेनाऽस्ति तत्प्रिया ॥२६१॥ भुवनश्रीस्तु तत्पुत्री, जिनधर्मेण भाविता । सा त्वदीयगुणान् श्रुत्वा, प्रतिज्ञामग्रहीदिति ॥२६२॥
25