________________
सप्तमः पल्लवः]
[३०५ तथा- अहं ममेति संसारो, नाहं मम न निर्वृतिः ।
चतुर्भिरक्षरैर्बन्धः, पञ्चभिः परमं पदम् ॥२३७॥ यतः- अनित्यानि शरीराणि, विभवो नैव शाश्वतः ।
नित्यं सन्निहितो मृत्युः, कर्तव्यो धर्मसङ्ग्रहः ॥२३८॥ मुक्त्वा क्रोधं विरोधञ्च, सर्वसन्तापकारणम् । यदा शमसुधायुक्तस्तदा प्राप्नोति निर्वृतिम् ॥२३९॥ इत्थं निःस्पृहवृत्त्या सोऽनित्यतां चिन्तयन् हृदि । सम्प्राप्तः क्षपकश्रेणि, ज्ञानं सम्प्राप केवलम् ॥२४०॥ गृहीत्वा देवतादत्तमुनिवेषं स केवली । सुवर्णाम्भोजसंस्थानश्चक्रे सद्धर्मदेशनाम् ॥२४१॥ पृथिव्यां विहरन् सोऽथ, बहून् जीवान् व्यबोधयत् । लोकैस्तदाऽस्य भुवनभानुनाम कृतं स्फुटम् ॥२४२॥ विजयेऽस्मिन् जयपुरनायकश्चन्द्रमौलिकः । अभूद् भूपः केवलिना, तस्याग्रे देशना कृता ॥२४३॥ वैराग्यरससम्पूर्णा, स्वकथा कथिता तदा । श्रुत्वा स प्राप संवेगं, दीक्षां चापि गृहीतवान् ।।२४४।। स क्रमात् केवली जज्ञे, तौ द्वौ चाराध्य संयमम् । पूर्वकोटी निजं चायुः, प्रपाल्याथ शिवङ्गतौ ॥२४५।। अस्मिन्नसारे संसारे, सारं किञ्चित् न विद्यते । एकः शान्त्यात्मको धर्मः, सारो यस्माद् भवेत् शिवम् ॥२४६॥ 20 धर्मात् सिध्यति विश्वेऽर्थः, कामः सिध्यति चार्थतः । अतोऽर्थकामौ मोक्षोऽपि, सर्वे सिध्यन्ति धर्मतः ॥२४७॥ इत्थं विज्ञाय भो भद्र ! सर्वथा कार्यसाधने । सेवनीयः सुचित्तेन, धर्म एव निरन्तरम् ॥२४८॥ धर्मः सम्यक्त्वमूलोऽसौ, जिनो देवो मुनिर्गुरुः ।
25 धर्मो दयेति सम्यक्त्वमुक्तं तत्त्वं त्रयात्मकम् ॥२४९॥