Book Title: Dharmakalpadruma Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 352
________________ [धर्मकल्पद्रुमः भ्रातृजायां प्रणम्यैष, स्थितः सद्भक्तिकीलितः । देवरं दयिताहीनं, शुश्रूषति दिवानिशम् ॥१७८॥ तच्छिरस्यन्यदा तैलं, क्षिपति स्वैरचेष्टिता । भ्रातृजाया तदायातो, हालिको रश्मिसंयुतः ॥१७९।। सोऽवदन्मातः ! मिण्ढाख्यो, मृतो वामवृषोऽधुना । वापवेला प्रयात्येषा, बलीवर्दो विलोक्यते ॥१८०।। सहसा साऽक्षिपच्चूर्णं, मुस्तके देवरस्य च । ककुद्यान् तत्क्षणाज्जज्ञे, यियासुरिव यः खि(ख)लम् ॥१८१।। तं गृहीत्वा गतः सीरी, सीरे तं वाहयेच्चिरम् । एकदा त्रुटिता नस्ता, जातः सूरः स्वरूपभाक् ॥१८२।। भयाच्छीघ्रं पलायिष्ट, पृष्ठौ धावति हालिकः । स गच्छन्मिलितो ज्येष्ठबान्धवस्यैकमार्गतः ॥१८३।। भ्रात्राऽथ भाषितः सूरः, क्व यासि व्रणजर्जर: ? । एहि बन्धो ! समालिङ्ग्य, सुखं तिष्ठ ममौकसि ॥१८४।। सोऽवदत् तव भार्या हि, शाकिनी याहि याहि भोः । तयाऽहं वृषभं कृत्वा, कामं कदथितोऽधुना ॥१८५॥ भ्रातस्तद्याहि नाहं ते, गेहेमेष्यामि निश्चितम् । वने यास्यामि सन्त्यत्र, 'राक्षस्यो वनिताः किल' ॥१८६।। ब्रुवन्नेवं व्रजत्येष, महारण्ये पपात सः । पुष्टान् तृणभराक्रान्तान् षड् नरान् दृष्टवानथ ॥१८७।। निर्मानुषे वने पश्यन् , स तान् पप्रच्छ सादरम् । मणिमाणिक्यसौवर्णभूषणाः किं तृणावहाः ? ॥१८८।। ते वदन्त्यास्ति नार्येका, वृद्धा वार्धक्यबाधिता । भारकान् षट् तथा नीरं, नित्यमस्माभिरानयेत् ॥१८९।। यदृच्छया ददात्यन्नं, वसनं भूषणं परम् । जीर्णमञ्चकसुप्तापि, कल्पवल्लीव जङ्गमाः ॥१९०॥ १. ऽजासूरिख जले खिलम् । प्र० 15

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405