Book Title: Dharmakalpadruma Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 353
________________ अष्टम: पल्लव: ] , सूरः पुनरुवाचैषा, तृणाम्भोभिः करोति किम् ? । ते वदन्ति किमस्माकं, चर्चयाऽध्वग ! तेऽथवा ? ॥१९१॥ सोऽचिन्तयद् दृशा तावत् पश्यामि किल कौतुकम् । तैः सार्द्धमगमत् सूरो, धृत्वा शिरसि पूलकम् ॥१९२॥ पृष्टस्तैरभिधानं किं ? धृष्टो नामेति सोऽवदत् । सप्तमः सोदरोऽस्माकमित्युक्त्वा ते गृहे गताः ॥१९३॥ भारकान् न्यस्य गम्यन्ते (शीर्षाग्रे), जलैर्भृत्वा च कुण्डकम् । धृष्टेन सह सम्प्राप्ता, वृद्धापार्श्वं प्रहर्षिताः ॥१९४॥ वृद्धया भाषिता वत्साः ! सप्तमः कोऽत्र दुर्बल: ? । ते वदन्ति वने दृष्टः, प्रापितो मातुरन्तिके ॥ १९५ ।। जरती सादरं धृष्टं, पृष्ठे न्यस्य करद्वयम् । ऊचे वत्स ! वरं दृष्टो, दुर्बलो दैवतोऽधुना ॥ १९६॥ यदृच्छया चिरं पुत्र !, भुङ्क्ष्व तिष्ठ गृहे मम । सोऽवदन्नम्ब ? तिष्ठामि, जन्मदुःखी तवान्तिके ॥१९७॥ स्नात्वेच्छाभोजनं भुक्त्वा, तिष्ठन्नेष व्यचिन्तयत् । क्व याति तृणपानीयं, कथमायान्ति सम्पदः ? ॥१९८॥ रात्रौ विलोकयाम्यद्य, कारणं चित्रकृन्नृणाम् । पल्यङ्के हंसतूल्यां स, सुप्तो जागर्त्ति कैतवात् ॥ १९९॥ अर्द्धरात्रे व्यतिक्रान्ते, वृद्धा प्राह स्फुटाक्षरम् । सुप्तो जागर्ति कोऽवाऽत्रेत्युक्ते कोऽपि न जल्पति ॥ २००॥ तज्जीर्णमञ्चकं मुक्त्वा, सा गताङ्गणके क्षणात् । भूमौ निपत्य जाताऽथ, वडवा दुष्टमन्त्रतः ॥ २०२॥ [ ३३३ सर्वास्तृणान् (सर्वं तृणं) भक्षयित्वा, जलं पीत्वाऽखिलं क्षणात् । जाता रूपवती नारी सर्व्वाभरणभूषिता ॥ २०२॥ निर्गता याति सा शीघ्रं, सूरस्तत्पृष्ठगोऽभवत् । विवेश विवरं योगियोगिनीशतसङ्कुलम् ॥२०३॥ 5 10 15 20 25

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405