________________
सप्तमः पल्लवः ॥
§§ धर्म्मो मङ्गलमुत्तमं नरसुरश्रीभुक्तिमुक्तिप्रदो, धर्म्मः स्निह्यति बन्धुवद्दिशति वा कल्पद्रुवद्वाञ्चितम् । धर्म्मः सद्गुणसङ्क्रमे गुरुरिव स्वामीव राज्यप्रदो, धर्म्मः पाति पितेव वत्सलतया मातेव पुष्णाति च ॥१॥ यस्यैकत्र तटे नवापि निधयः कल्पद्रुमाः कोणके, स्वर्गक्षोणिरसातलेन्द्रपदवी श्रीश्च प्रदेशे क्वचित् । अंशे क्वापि वसन्ति दैवतवराः सार्द्धं महासिद्धिभिः, धर्म्यं प्रौढनिधिं बुधाः कुरुत तं किं वाः प्रयासैः परैः ? ॥२॥ 10 यतः ग्रन्थान्तरे
5
15
20
चक्र १ च २ छत्र ३ दण्डाः ४, कृपाण: ५ काकिणि ६ र्निधिः ७ । गजा ८ ऽश्व ९ गृह १० सेनानी ११ पुरोधः १२ स्थपति १३ स्त्रियः १४ ॥३॥ SS द्वादशयोजनायामा, नवयोजनविस्तृताः ।
मञ्जूषाकृतयः प्रादुर्बभूवुर्निधयो नव ॥४॥
नैसर्प्पः १ पाण्डुकश्चैव २, पिङ्गलः ३ सर्वरत्नकः ४ । महापद्मः ५ काल ६ महाकालौ ७ माणव ८ संख्यकौ ९ ॥५॥
स्कन्धावारपुरादीनां निवेशा: प्रथमे निधौ १ ।
सर्वेषां धान्यबीजानामुत्पत्तिश्च द्वितीयके २ ॥६॥ नराणां महिलानां च, गजानां वाजिनां तथा । आरोहणविधिः सर्वो, निधौ पिङ्गलके ३ भवेत् ॥७॥ चतुर्द्दशापि रत्नान्युत्पद्यन्ते सर्वरत्नके ४ ।
महापद्मे च वस्त्राणां, रङ्गादीनां च सम्भवः ५ ॥८॥