Book Title: Dharmabhyudaya Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 6
________________ संघमाहात्म्यम् व्याप्ताशेषहरिच्चतुर्मुखतया तन्वन्नदीनां स्थितिं, स स्तुत्यः पुरुषोत्तमैकवसतिः श्रीसङ्घरत्नाकरः । यं संसेव्य घनाघना इव जिना धारालधर्मामृतैविश्वाश्वासनहेतवः कति न तेऽभूवन् भविष्यन्ति वा ? ॥ वस्तुपालमाहात्म्यम् गुर्वाशीर्वचसां फलं निरवधि श्रीसिद्धिसिद्धौषधिः, कीर्तिस्फूर्तिसुधासुधांशुरुदयद्दीप्रप्रभाभास्करः । मूर्तः पुण्यसमुच्चयो विजयते कोऽप्येष सङ्घाधिपः, शङ्के यस्य विभात्यखण्डविभुतापाखण्डमाखण्डलः ॥ प्रस्तुतग्रन्थस्याभिधानम् सङ्घपतिचरितमेतत्, कृतिनः कर्णावतंसतां नयत । श्रीवस्तुपालधर्माभ्युदयमहोमहितमाहात्म्यम् ॥ [ सर्ग - १ / श्लोक १५-१६-१७]

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 515