________________
संघमाहात्म्यम्
व्याप्ताशेषहरिच्चतुर्मुखतया तन्वन्नदीनां स्थितिं, स स्तुत्यः पुरुषोत्तमैकवसतिः श्रीसङ्घरत्नाकरः । यं संसेव्य घनाघना इव जिना धारालधर्मामृतैविश्वाश्वासनहेतवः कति न तेऽभूवन् भविष्यन्ति वा ? ॥
वस्तुपालमाहात्म्यम्
गुर्वाशीर्वचसां फलं निरवधि श्रीसिद्धिसिद्धौषधिः, कीर्तिस्फूर्तिसुधासुधांशुरुदयद्दीप्रप्रभाभास्करः । मूर्तः पुण्यसमुच्चयो विजयते कोऽप्येष सङ्घाधिपः, शङ्के यस्य विभात्यखण्डविभुतापाखण्डमाखण्डलः ॥
प्रस्तुतग्रन्थस्याभिधानम्
सङ्घपतिचरितमेतत्, कृतिनः कर्णावतंसतां नयत । श्रीवस्तुपालधर्माभ्युदयमहोमहितमाहात्म्यम् ॥
[ सर्ग - १ / श्लोक १५-१६-१७]