Book Title: Dhanharshshishya krut Vignaptika lekh
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 6
________________ अनुसंधान-१६ .6 रसास्पृशामर्हणामाददानं यं दानशौण्डं प्रवदन्ति सन्तः । यः पर्यणैषीद्वरसिद्धिकामिनी, तथापि यो ब्रह्मवतां धुरि स्थितः ।।९।। द्विधा समस्तान् प्रजघान यो द्विषस्तथाप्यमन्युप्रथितावदातभाक् । यो निर्मिमीते नहि कस्यचिन्नति तथाप्यमानीति वचस्विनोऽब्रुवन् ॥१०॥ न स्थाणुभावं न च भीमभावं न चैकदक्त्वं न च षण्ढभावम् । बरीभरीति स्म न बभ्रुभावं शिवो महेशोऽपि हि शङ्करोऽपि ॥११॥ न चैकपात् त्वं शिपिविष्टभावं न रुद्रभावं न च शूलिभृत्त्वम् । दरीधरीति स्म न गोपतित्वं महाव्रती शम्भुरपीश्वरोऽपि ॥१२।। शिवश्रीपरीरम्भविद्वन्मनस्कं प्रणेमुश्चतुःषष्टिराखण्डला यम् । ददे यश्च तेषामनन्तां समृद्धि भवत्येव नान्तर्गडुः शिष्टसेवा ।।१३।। ब्रुवाणस्य तत्त्वं ददानस्य चेष्टं ददाना अभीष्टं सतां पारिजाताः । लभन्ते स्म यस्योपमां नैव जातु प्रपन्ना यतः सन्ति ते मूकभावम् ॥१४।। क्षमस्व तापं हि हिरण्यरेतसस्तथापि कार्तस्वर ! नाप्स्यसि त्वम् । औपम्यमनस्य जिनेन्द्रवर्मणः प्रभूतभासो भवतो भुवस्तले ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27