Book Title: Dhanharshshishya krut Vignaptika lekh
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 15
________________ अनुसंधान - १६ • 15 यदीयकुड्यानि सुधातिनिर्मलान्यालोक्य विज्ञा इति जानते हृदि । एतानि तारैरिव निर्मितानि किं देवेन पाथोरुहजन्मना स्वयम् ॥७२॥ दशार्धवर्णैरुपशोभितानां सवाससां मूल्यबहुत्वभाजाम् । चन्द्रोदया यत्र मुमुक्षुधाम्नि व्योम्नीन्द्रचापा इव विस्फुरन्ति ॥ ७३ ॥ कास्मीरजन्मोत्तमकाकतुण्डसद्गन्धधूलीहरिचन्दनानाम् । सौरभ्यलुब्धास्त्रिदशाः [गता ] गतिं वितन्वते यत्र तपस्विभिर्भृते ॥७४॥ मुक्ताफलैरालिखिताष्टमङ्गलप्रकीर्णकच्छत्रविचित्रचित्रकम् । वितानमाभाति मुनीशमूर्द्धनि व्योमेव नक्षत्रततिप्रपूरितम् ॥७५॥ स्तम्भाभिरामगुणवृक्षविराजमानः पार्श्वद्वयस्थिततृणध्वजकोटिपात्रः । चन्द्रोदयोपधिवरेण्यसिताम्बरेण संशोभितो गुरुनियामकयोगयुक्तः ॥ ७६ ॥ विभ्राजते मुनिनिकाय्यपरार्ध्यपोतो यस्तारयत्यनुदिनं समदेहभाज: । यत्र स्फुरत्तरमनुष्य योधिनाथे संपूरिते सकलया कलयाऽब्धिपुत्र्या ॥७७॥ सुस्तम्भदम्भकमणोऽधिरोहणी वरः कुवाटश्रवणातिशोभनः । पक्षद्वयस्थाणुवरेण्यवाता - यनेक्षणो नीव्रनिषद्विजन्मा ॥ १७८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27