________________
अनुसंधान - १६ • 15
यदीयकुड्यानि सुधातिनिर्मलान्यालोक्य विज्ञा इति जानते हृदि । एतानि तारैरिव निर्मितानि किं देवेन पाथोरुहजन्मना स्वयम् ॥७२॥ दशार्धवर्णैरुपशोभितानां
सवाससां मूल्यबहुत्वभाजाम् । चन्द्रोदया यत्र मुमुक्षुधाम्नि व्योम्नीन्द्रचापा इव विस्फुरन्ति ॥ ७३ ॥
कास्मीरजन्मोत्तमकाकतुण्डसद्गन्धधूलीहरिचन्दनानाम् । सौरभ्यलुब्धास्त्रिदशाः [गता ] गतिं वितन्वते यत्र तपस्विभिर्भृते ॥७४॥
मुक्ताफलैरालिखिताष्टमङ्गलप्रकीर्णकच्छत्रविचित्रचित्रकम् । वितानमाभाति मुनीशमूर्द्धनि व्योमेव नक्षत्रततिप्रपूरितम् ॥७५॥
स्तम्भाभिरामगुणवृक्षविराजमानः पार्श्वद्वयस्थिततृणध्वजकोटिपात्रः । चन्द्रोदयोपधिवरेण्यसिताम्बरेण
संशोभितो गुरुनियामकयोगयुक्तः ॥ ७६ ॥ विभ्राजते मुनिनिकाय्यपरार्ध्यपोतो यस्तारयत्यनुदिनं समदेहभाज: । यत्र स्फुरत्तरमनुष्य योधिनाथे संपूरिते सकलया कलयाऽब्धिपुत्र्या ॥७७॥ सुस्तम्भदम्भकमणोऽधिरोहणी
वरः कुवाटश्रवणातिशोभनः । पक्षद्वयस्थाणुवरेण्यवाता -
यनेक्षणो नीव्रनिषद्विजन्मा ॥ १७८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org