Book Title: Dhanharshshishya krut Vignaptika lekh
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 19
________________ अनुसंधान-१६ . 19 अभिगतनवतत्त्वैर्लब्धधर्मस्वरूपैनिजतनुजितकामैस्तातभक्तौ सुधीभिः । परमसुकृतलीनैराहतैश्च प्रवीणमतिनलिनमुखीभिः संभृतायां सभायाम् ॥९८।। श्रीमानतुङ्गाभिधरसूरिकुञ्जरैविनिर्मिता या शुचिशीलभावना । रविप्रभाचार्यकृतां तदीयवृत्ति पवित्रामथ वाचयामि ॥९९|| वाचंयमानां च तपस्विनीनां प्रारब्धशास्त्राध्ययनं सुखेन । तथा च योगोद्वहनं मनोरममित्यादिकृत्यं सुकृतस्य जायते ॥१००।। सद्धर्मभूवल्लभवासमन्दिरे समग्रपङ्के चिकिलाहेश्वरे । भव्याङ्गभृत्कैरवशीतरोचिषि प्राप्ते क्रमाद् वार्षिकपुण्यपर्वणि ॥१०॥ समीप्सितार्था]वलिपूर्तिकल्पद्रुमोपमानं शुचिकल्पसूत्रम् । प्रभावनापूर्वमपूर्वभावतो नवक्षणैर्भूरिमहैरवाचयम् ।।१०२॥ लब्धानि तातैर्वसुधापुरन्दरात् त्रिनेत्रपुत्राम्बक(१२)सम्मितान्यलम् । दिनानि यावत् पटहः प्रघोषितः समग्रजीवाभयदानहेतवे ॥१०३।। ओजस्विमन्यूत्करसामयोनि व्यापाद्यते स्मार्हतपञ्चवक्त्रैः । उक्ता अमारिप्रविधायकास्तथाप्यहो ! यशः पुण्यभरैरवाप्यते ॥१०४|| Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27