Book Title: Dhanharshshishya krut Vignaptika lekh
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 9
________________ अनुसंधान-१६ .9 कृत्वा कराग्रवलयं परिखाच्छलेन भूयोषिता हि सुनरं नहि कापि जह्यात् ॥३१॥ यत्र चारुपरिखा व्यभासयद् दुर्गमुत्तममहीधराचलम् । किं चकासयति नो विकूणिका वक्त्रमालपममोत्तरं सुधीः ॥३२॥ या विराजति पुरीव मानिनी तद्गलः किमुत दुर्ग एषकः । खातिकोपरि वशात् सुरेखया संयुतोऽस्ति मम नैव संशयः ॥३३॥ इति दशभिः काव्यैः परिखावर्णनम् ॥ अथ सरस्वतीसद्धिर्णनं यथायत्रिवासिजनतासुचातुरी-निर्जिता वहति शारदा पयः । न ब्री(ब्रवी)ति जनपादघट्टिता क्षालयत्यशुचिचीवराण्यहो ! ॥३४|| यत्र वासमधिगच्छति स्वयं स्थानपावनतया सरस्वती । मानवा यदि हि तत्रिवासिनः कोविदाः किल न तत्र कौतुकम् ॥३५॥ यत्र बालतरुणा स्थविरा वा येऽपि सन्ति निखिलाः सुधियस्ते । आजनविहितसारशारदो-पासिनां हि कविता न चित्रकृत् ॥३६।। यत्र पूर्जनविवेकचारुतालोकनाय समियाय हंसगा । सा प्रवाहमिषतस्ततः परं तत्र च स्थितगतीव रागतः ॥३७॥ यत्र पावनपयःप्रपूरिता मत्तषट्चरणपद्मसङ्गता । गर्जतीत्यथ च युक्तमीदृशं स्वे धवेऽपि हि तथैव दर्शनात् ॥३८॥ यत्र नादिवणिगादियोगतः शिक्षितादरमहाविसर्जना । भाति हंसगसुता तदीयका-द्योगतश्च विबुधा नरोऽभवन् ॥३९॥ इति षड्भिः काव्यैः सरस्वतीसरिद्वर्णनम् ।। अर्थ गोवर्णनम् - स्तनैश्चतुर्भि: समलङ्कृता सदाऽस्ति वल्लभा यत्र गवां ततिर्नृणाम् । कुतूहलं तद्विदुषां न जायते यतः स्तनद्वन्द्वयुताऽपि वल्लभा ।।४०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27