________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS. 289 यशोदया वर्धितमङ्गलागी यौ रामकृष्णाविव संप्रतीतौ // यच्छैशवानुकरणं न युवा न वृद्धः शक्नोति कर्तुमितरः कृतसद्गुणोऽपि / दानाना(?)दानमस्विलार्थिजनार्थसिद्धेः कीर्तिर्दिगन्तवितता च यतस्तदीया // अप्रतिमल्लः पृथ्व्यां पृथिवीमल्लस्तयोरभूज्ज्येष्ठः / अपरो मान्धातृ(सम)मान्धाता गीयते जगति // सोऽयं सुकृतविधाता रिपुकुलजेता तनोति मान्धाता / विद्वन्मुखेन मतिमान् सत्कृतिरत्नं महार्णवं नाम / माता पुण्यचरित्रकीर्तिविभवा यस्याम्बिका नामतः शाकल्यापरमूर्तिरार्यचरितः श्रीपेद्दिभट्टः पिता / सोऽयं कौशिकवंशभूषणमणिः श्रीभट्टविश्वेश्वरो वेदे स्मातमते नये च सपदे वाक्ये कृती वर्धते // मतिर्येषां शास्त्रे प्रकृतिरमणीया व्यवहृतिः परं शीलं श्लाघ्यं जगति ऋजवस्ते कतिपये। चिरं चित्त तेषां मुकुरतलभूते स्थितिमिया दियं व्यासारण्यप्रवरमुनिशिष्यस्य भाणितिः॥ श्रुतिस्मृतिपुराणानि समालोक्य यथामति / निबध्यते समासेन निबन्धोऽयं महार्णवः // For further information refer to No. 53. p. 115, D. C. S. M., M. P. L., Vol. I. For Private and Personal Use Only