Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri, 
Publisher: Shripalnagar Jain S M P Trust

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आशीर्वाद: श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् 130 ॥ गच्छाधिपतीनां आशीर्वादः ।। अनन्तज्ञानवतामनुपमबोधवतामपरिमितप्रभावशालिनामर्हतामिदं शासनं शास्त्रवचनानुबद्धतयैवाद्य यावज्जीवितमस्त्यप्रतिहतप्रभावम् । यत्र शास्त्राज्ञा प्रवर्तते तत्र शासनं विलसत्यतितमाम्। भगवतां जिनेश्वराणां विरहकाले तेषां वचास्युपजीव्यैवाराधना साध्या। यद्यपि शास्त्राणि सर्वोपकारकारणानि, अतस्तदध्ययनं सर्वैरेव कर्तव्यम्, तथापि परमोत्कृष्टपावित्र्यवतां शास्त्राणामध्ययनार्थं पात्रताऽनिवार्या । द्विविधा किल शास्त्रश्रेणिः । मूलागमरूपा, तदितररूपा च । तत्र मूलागमशास्त्राणि तद्वत्तयश्व केवलं गुरूदत्ताधिकाराणां योगक्रियावाहिनामेव श्रमणानामध्ययनगोचरी भवन्ति । तदितररूपाणिशास्त्राणि मूलागमानुसारं विरचितान्यपि यथास्वं श्रमणश्रमणीनां श्रावकश्राविकाणांचाध्ययनभाजनानि भवन्ति । इह तु, आगमशास्त्रप्रस्ताव इति यथाऽहै योगवाहिनां श्रमण-श्रमणीनामेव प्रवृत्तिरस्मिन् । यद्यपि नागमशास्त्राणि मुद्रणााणि, तेषामुपलब्धिसौख्यादनधिकारिणामपि तत् पठनादिसंभवाद् । तथापि बहसंख्यक-श्रमण-2 श्रमणीगण-स्वाध्याय-सहायकतया मुद्रणव्यवस्थाऽद्यतनकालीनगीतार्थ: स्वीकृता, केवलं निगूढरहस्यानां छेदसूत्राणां मुद्रण नाहतमित्ययं विवेकः सुस्पष्टः । इह सवृत्तिकानामागमशास्त्राणां सम्पुट: सम्पादित: मुनिवरैः श्रीदिव्यकीर्तिविजयगणिवरैः, मुनिवरैः श्रीपुण्यकीर्तिविजयगणिवरैश्चसायुज्येन । इतः पूर्वमनेकवारमनेकस्थानकैश्चागमशास्त्राणिसम्पादितानि । तत् परम्परायामिदंसम्पादनं स्वयंसिद्धां विशिष्टिं धारयतीत्येतत् प्रत्यक्षमस्ति। ___अत्र दिव्यकृपावतरणं तपागच्छाधिराजपूज्यपादाचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणाम, सुविशालगच्छाधिपति पूज्यपादाचार्य श्रीमद्विजयमहोदयसूरीश्वराणाञ्च। प्रेरकत्वञ्चात्र परमगीतार्थपूज्यपादाचार्यवर्यश्रीमद्विजयविचक्षणसूरीश्वराणाम् । श्रीश्रीपालनगरजैनश्वेताम्बरमूर्तिपूजकसङ्घन ग्रन्थप्रकाशनेऽस्मिन् ज्ञानद्रव्यव्यय आदृत इत्येतदनुमोदनीयमस्ति । अग्रेऽपि सङ्गो ॥३॥ G008 48 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 466